Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः कालं भवतीति दत्तो जलाञ्जलिः प्रतिक्षणविलयस्य, तथोत्पादहेतुरपि तत्स्वभावस्योत्पत्तिं विदध्यात् अतरस्वभावस्य वा । न तावदाद्यः पक्षः कक्षीकतुं युक्तः,स्वयमुत्पादकस्योत्पादने व्याप्रियमाणो हि हेतः पिष्टं पिनष्टि, शङ्ख धवलयतीति, तदभावेऽपि स्वयोग्यतगोत्पत्तेः । नापि द्वितीयः कल्पोऽङ्गीकरणाहः, स्वयमनुत्पत्तिधर्मकस्योपादयितुमशक्यत्वात् , अन्यथा शशविषाणादयोऽप्युत्पाद्यकोटिमध्यासीरन् , विशे. पाभावात् , ततश्च न कश्चिदत्यन्ताभावः स्यात् । तद्यथा--नितुकत्वात् नाशःप्रति. क्षणभावी, तथैव दर्शितयुक्तेः स्थित्युत्पत्ती अपीति त्रयाक्रान्तं सकलवस्तुजातमभ्युपगन्तव्यम् , तथा सति जीवोऽपि जीवत्वचैतन्यद्रव्यस्वादिभिः स्थमानमाबिभ्राण एव हर्षविषादादिभिरपरापरार्थग्रहणपरिणामैश्चोत्पादव्ययधर्मकः पारमार्थिकः प्रमातेति बलात् सिद्धिमध्यास्ते । ननु च यद्यत्पादव्ययस्थितीनां निर्हेतुकत्वात् सकलकालभाविता भवद्भिः साध्यते, तदान्वयव्यतिरेकाभ्यां प्रत्यक्षादिप्रमाणप्रसिद्धः खल्वयं तत्कारणकलापव्यापारः कथं नेयः ? न चायमपलोतुं शक्यः। तथा हि- कुलालादिकारणवातव्यापारे घटादयः समपलभ्यन्ते, तदभावे च नोपलभ्यन्ते इति तजन्या इत्युच्यन्ते, स्थितिरपि विनाशकारणसंनिधामात् प्राक् तद्वलादेव, तथा नाशोऽपि मुद्रादिसंनिधानासंनिधानाभ्यां सदसत्तामनुभवतस्तत्कृतः प्रतीयते, नाहेतुकः, तत्कथमेतदिति । अत्रोच्यते-न वयं सर्वथा हेतूनां व्यापार वारयामः, किं तर्हि स्वयमुत्पादव्ययस्थित्यात्मना विवर्तमानस्य द्रव्यस्य हेतवस्तद्विशेषकरणे व्यापारमनुभवन्ति, तेनैव साधं तेषामन्वयव्यतिरेकानुकरणदर्शनात् , दृष्टस्य चापह्नवेऽस्माकमप्रवृत्तत्वात् , प्रतीतियुक्तिलक्षणद्वयपक्षपातित्वात् , केवलं प्रतीतिविकलां युक्तिं युक्तिविनाकृतां वा प्रतीतिं नाङ्गीकर्महे, असंभवदर्थगोचरतया निरालम्बनत्वात्तस्या इत्यास्तां तावत् । ' स्वान्यनिर्भासि' इत्यनेन प्रागुक्तस्वपराभासि प्रमाणविशेषणवन्मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश्च ज्ञानमात्रवादिनः प्रतिक्षिपति । कथम् ? ज्ञानज्ञानिनोः कथंचिदभेदेन तदुक्तन्यायाविशेषादिति । 'कर्ता भोक्ता इति विशेषणद्वयेन सांख्यमतं विकुट्टयति, कर्ता सन् भोक्तापि इति काक्वो. पन्यासात्, अकर्तुभॊगानुपपत्तेः, भुजिक्रियानिर्वर्तनसमर्थस्यैव भोक्तृत्वात् । जपाकुसुमादिसंनिधानवशात् स्फटिके रकत्वादिव्यपदेशवदकर्तुरपि प्रकृत्युपधानवशात् सुग्वदुःखादिभोगव्यपदेशो युक्तः । तथा हि-- 'प्रकृतिविकारदर्पणाकार ___ ननु चेत्यादि । पूर्व हि बौद्धेन विनाशस्य निहेतुकत्वेऽभिहिने परोपन्यस्ते युक्तिकला. पेनैव म पक्षः सेत्स्यतीति मन्यमाननाचायेंणोत्पादस्थिती अपि निर्हेतुके प्रत्यपादिषाताम् . तटस्थः पुनः सर्वत्रापि सहेतुकत्वं पश्यन्नेवं पूर्वपक्षयति । समाधानाभिप्रायस्तु सकलमपि त्रिलोकीगतं मृदादिद्रव्यमात्मनैव प्रतिक्षणमुदयव्य याव्यात्मकम् , कुलाललगुडादयस्तु नटघटीकपाल दिविशेषकरणे एव व्याप्रियन्ते इति । अकर्तुरिति । गदाहुः सांख्या:-प्रकृतिः करोति पुरुष उपभुने-इति । प्रकृतिविकारेत्यादि । सत्त्वरजस्तममा साम्यावस्था प्रकृतिः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110