Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
९४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥ ३१ ॥
-
तत्र त्रिकालजीवनाज्जीवः, प्राणधारक आत्मेत्यर्थः, स प्रमिणोतीति प्रमाता प्रमेयपरिच्छेदकः । किंभूतः सन्नित्याह – स्वान्यौ आत्मपरौ निर्भीसयितुं उद्दयोतयितुं शीलमस्येत्ति स्वान्यनिर्भासी, स्वस्वरूपार्थयोः प्रकाशक इति यावत् । तथा करोतीति कर्ता, भुङ्क्ते इति भोक्ता । विवर्तनमपरापरपर्यायेषु गमनं विवृत्तिः परिणामः, सा विद्यते यस्येति विवृत्तिमान् । स्व आत्मा संवेद्यतेऽनेनेति स्वसंवेदनं तेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्वसंवेदन संसिद्धः । क्षितिः पृथिव्यादिर्येषां तानि क्षित्या. दीनि, आदिशब्दादम्बुतेजोवाय्वाकाशानि गृह्यन्ते । न विद्यते आत्मा स्वरूपमस्येत्यनात्मकः, किं स्वस्वरूपापेक्षया ? न, क्षित्यादीनामनात्मकः क्षित्याद्यनात्मकः क्षित्यादिस्वरूपो न भवतीत्यर्थः । तत्र 'जीवः प्रमाता' इत्यनेन ये पारमार्थिकं प्रमातारं नाभ्युपगच्छन्ति अपि तु विज्ञानक्षणपरंपरानुभवबलप्रबोधितानादिप्ररूदवासनासंपादितसत्ताकं मिथ्याविकल्पपरिकल्पितम पारमार्थिकं तं मन्यन्ते प्रतिक्षणविलयवादिनः तान्निराचष्टे, क्षणविलयस्य प्रागेव प्रतिषिद्धत्वात्, बहिरन्तश्च परिणामिवस्तुनः प्रसाधनात् । ननु च घटादयस्तावद्विनाशमाविशन्तो दृश्यन्ते तेषां च विनाशो लकुटादिकारणकलापेन अविनश्वरस्वभावानां वा क्रियेत विनश्वरस्वभावानां वा । यद्याद्यः कल्पः, तदयुक्तम्, स्वभावस्य प्रच्यावयितुमशक्यत्वात्, तस्य नियतरूपत्वात्, अन्यथा स्वभावत्वायोगात् । अथैवंभूत एव तस्य स्वभावः स्वकारणबलायातो यदुत विनाशकारणमासाद्य विनङ्क्ष्यति इति ब्रूषे, तथापि तद्विनाशकारणसंनिधानं किं याहच्छिकम्, उत तत्स्वभावसंपाद्यमेव । यदाद्यः कल्पः, तदा संनिहितस्यापि तत्प्रत्य. नीकप्रत्ययोपनिपातेन निवर्तनात् तत्संनिधापकहेतूनामपि स्वसंनिधापककारणकलापसापेक्षत्वात् संनिहितानामपि प्रतिद्वन्द्विना निवर्तनात्, यादृच्छिकत्वाच्च नावश्यंभावि तत्संनिधानम्, ततश्चासंनिहितस्वविनाशकारणकदम्बकः कश्चित्घटादिर्न
"
त्रिकालजीवनादिति । जीवनं पश्चेन्द्रियमनोवाक्कायोच्छ्वासनिःश्वासायुर्लक्षणदशविधप्राणधारणम्, तच्च यद्यपि मुक्तानां न संभवति, तथापि नाव्यापकम् यतो मुक्तात्मानो मुक्तेरर्वाग् यथासंभवं दशविधानपि प्राणान् धारितवन्तः इत्युपचाराद् मुक्तावस्थायामजीवितवन्तोऽपि जीवन्त इत्युच्यन्ते । यद्वा क्षायिकज्ञानदर्शनलक्षणं द्विविधभावप्राणधारणं जीवनम् अस्मिंश्च पक्षे त्रिकालप्राणधारणं निरुपचारं मुक्तजीवानां विस्पष्टमेव । तत्स्वभावेति विनाश्यस्वभावसंपाद्यम् । तत्संनिधापक हेतूनामिति । तस्य विनाशकारणमुद्गरादेरुपसर्गहेतवः पाण्यादयः । ननु यदृच्छा स्वेच्छावृत्तिरुच्यते, तत्कथमिह हेत्वपेक्षा युज्यते १ सत्यम्, विनाशस्वभावात् यादृच्छिकत्वमिह विवक्षितं न निर्हेतुकत्वम्, निर्हेतुकत्वमपि चाधिकृत्यामिधास्यति यादृच्छिकेत्यादि ।
For Private And Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110