Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यायावतार तदिदमुकं भवति-नयप्रमाणाभिशः स्याद्वादी सकलविकलादेशावधिकृत्य वस्तुस्वरूपप्रतिपिपादयिषया ययद् ब्रूते तत्तत् सत्यम् , संभवदर्थगोचरत्वात् । दुर्नय मतावलम्बिनः पुनरेकान्तवादिनो यद्यदाचक्षते तत्तदलीकम् , असंभवदर्थविषय. स्वादिति ॥ २९॥ सांप्रतममुमेवार्थ द्रढयन् सिद्धान्तेऽप्येकैकनयमतप्रवृत्तानि सूत्राणि न संपू. र्थाभिधायकानीति, अपि तु तत्समुदायाभिप्रायप्रवृत्तमविकलवस्तुनिवेदकमिति दर्शयबाह नयानामेकनिष्ठानां प्रवृत्तेःश्रुतवम॑नि । संपूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते ॥३०॥ इह त्रिविधं श्रुतम् , तद्यथा-मिथ्याश्रुतम् , नयश्रुतम् , स्याद्वादश्रुतम् । तत्र श्रूयते इति श्रुतमागमः, मिथ्या अलीकं श्रुतं मिथ्याश्रुतम् , तच्च दुर्नयाभिप्रायप्रवृत्ततीर्थिकसंबन्धि, निर्गोचरत्वात्। तथा नर्हेतुभूतैः श्रुतं नयश्रुतम् , एतच्चाहदागमान्तर्गतमेव, एकनयाभिप्रायप्रतिबद्धं , यथा- 'पडुप्पन्ने नेरइए विणस्सइ' इत्यादि, ऋजुसूत्रनयाभिप्रायेण क्षणिकत्वस्यापि तत्र संभवात् । तथा निर्दिश्यमानधर्मग्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादोऽभिप्रेतधर्मवचनं स्याद्वादः, तदात्मकं श्रुतं स्याद्वादश्रुतम् । तत् किंभतमुच्यते इत्याह -संपू. गोंऽविकलः स चासावर्थश्च तद्विनिश्चायि तमिर्णयहेतुत्वादेवमभिधीयते, परमार्थतः पुनः समस्तवस्तुस्वरूपप्रतिपादीत्यर्थः, शब्दात्मकत्वात् , निश्चयस्य बोधरूपत्वादिति। नयश्रुतं तर्हि संपूर्णार्थ विनिश्चायि कस्मान भवति इत्याह – नयानां नैगमादीनामेकनिष्टानामेकधर्मग्रहणपर्यवसितानां श्रुतवमनि आगममार्गे प्रवृत्तेः प्रवर्तनात् न तदेकैकाभिप्रायप्रतिबद्धं संपूर्णार्थविनिश्चायि, तत्समुदायस्यैव संपूर्णार्थविनिश्चायकत्वादित्याकूतम् ॥ ३०॥ तदेवं नयप्रमाणस्वरूपं प्रतिपाद्याधुना शेषनयप्रमाणव्यापकं तेषां तत्र तादात्म्येनावस्थानात् प्रमातारमभिधातुकाम आह पदुप्पश्चेति सांप्रतमुत्पन्नस्तत्कालोत्पन्न इत्यर्थः । निरयो दुर्गतिस्तत्र भवो नैरयिको नारफिकः स नश्यति । अथ कथं तत्क्षणोत्पन्नस्य तस्य विनाशः नारकिकाणां जघन्यतोऽपि दशवर्षसहस्रस्थायित्वस्यागमेऽभिधानात् इत्याह अजुसूत्रेत्यादि । अयमभिप्रायः - यावन्तो नयास्तावत्समुदायरूपोऽहदागमः, “ सव्वनयमयं जिणमयं" इति वचनात् । यतो यथा यत्समयविशिष्टः संपूर्णस्वस्थितिधर्मा च प्रथमसमये नैरयिक आसीत् , न तथा द्वितीयसमये इति ऋजुसूत्राभिप्रायेण स्पष्टैव क्षणिकतेति । स्यातेति । अस्तेर्यात्प्रत्ययान्तस्य प्रतिरूपकोऽ नेकान्तार्थवृत्तिः स्याच्छन्दोऽव्ययः, अत्र तु सविभतिकनिर्देशः शब्दरूपापेक्षया; तेन स्याता, स्यादित्यनेन शन्देन युक्तो वाद इत्यर्थः ॥ ३० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110