Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोका दिपनसहित गता गम्यते, अन्यथा तदुपारणवैयर्थ्यप्रसङ्गात् , तथाप्यवधारणं तदसंभवमानं व्यवछिमत्ति, म शेषपुरुषान्तराणि । नापि पररूपेण नास्तिस्वम् , तद्व्यवच्छेदाभिप्रायेण प्रस्तुतवाक्यप्रयोगात्, प्रयोक्तुरभिप्रायादिसापेक्षतयैव ध्वनेः स्वार्थप्रतिपादनसामर्थ्यात् । न च वाध्यवाचकभावलक्षणसंबन्धानर्थक्यम् , तदभावे प्रयो. त्रभिप्रायादिमात्रेण रूपस्यैव नियोक्तुमशक्यत्वात् । न च समस्तधर्मयुक्तमेव वस्तु प्रतिपादयद्वचनं सत्यमित्यभिदध्महे, येनकेकधर्मालिङ्गिन्तवस्तुसंदर्शकानामलीकता स्यात् , किं तर्हि संभवदर्थप्रातिपादक सत्यमिति, संभवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापना धर्माः, तस्मात् तत्प्रतिपादकं सत्यमेव । यदा तु दुर्नयमताभिनिविष्टबुद्धि भिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणाभिप्रायेणैव सावधारणं तत् प्रयुज्यते, यथा नित्यमेव वस्तु अनित्यमेव वेत्यादि, तदा निरालम्बनस्वादलीकतां प्राप्नुवत्केन वार्यत? तत्वचिन्तकाः पुनः प्रत्यक्षादिप्रमाणसिद्धमनेकान्तारमकं वस्तु दर्शयन्तो द्वेधा दर्शयेयुः, तद्यथा- विकलादेशेन सकलादेशेन वा । तत्र विकलादेशो नयाधीनः, सकलादेशः प्रमाणायत्तः । तथा हि-यदा मध्यस्थभावेनार्थित्ववशात् किंचिद्धर्म प्रतिपिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाचं प्रयुञ्जते तदा तत्वचिन्तका अपि लौकिकवत् संमुग्धाकारतयाचक्षते - यदुत जीवोऽस्ति कर्ता प्रमाता भोक्तत्यादि, अतः संपूर्णवस्तुप्रतिपादनाभावाद् विकलादेशोऽभिधीयते, नयमतेन संभवद्धर्माणां दर्शनमात्रमित्यर्थः । यदा तु प्रमाणव्या पारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति, तदाङ्गीकृतगुणप्रधानभावा अशेष धर्मसचककथंचित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति स्यादस्त्येव जीवः इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसंभवस्य वस्तुनः संदर्शकत्वात् सकलादेश इत्युच्यते, प्रमाणप्रतिपक्षसंपूर्णार्थकथनमिति यावत । तदुक्तम् -- सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत्तत्र । सकलग्राहि तु मानं विकलग्राही नयो ज्ञेयः॥ व्यायात । तद्वयवच्छेदाभिप्रायेणेति। तस्य देवदत्तादेरसंभवमात्रस्य व्यवच्छेदाभिप्रायेण, देवदत्तोऽस्तीति वाक्यस्योच्चारणात् । 'अप्रयोगाद' इति तु पाठे किमित्यवधारणम् । शेषपुरुषान्तराणि पररूपेण नास्तित्वं च न व्यवन्छिनत्ति इत्याह तदिति । तेषां शेषपुरुषान्तगणां पररूपेण नास्तित्वस्य व्यवच्छेदाभिप्रायण प्रस्तुतवाक्यानभिधानात् । प्रयोक्त्रभिप्रायादीति । आदिशब्दात् संकेतादिग्रहः । अङ्गीकृतेत्यादि । अङ्गीकृता गुणप्रधानभावा. भ्यामशेषाश्च ते धर्माश्व तेषां सूचकः, कथंचिच्छब्दः पर्यायो नामान्तरं यस्य स कथंचि. पर्यायः, म चासौ स्याच्छब्दश्च तेनालंकृतया ॥ २९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110