Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
टीका-टिप्पनसहितः
वशात् स्थिरताम्यवहारं च प्रवर्तयन्ति तदयुक्तम्, भवदाकूतेन सादृश्याभावात्, तदभावे तदुत्पाद्याभिमतभ्रान्ते र्निर्बीजत योत्पत्तेरसंभवात् । तथा स्थिरतारोपोऽपि कचिद् गृहीतस्थिरस्वस्यैव युक्तो नान्यथा, यथा दृष्टविषधरस्य मन्दप्रकाशे रज्जुदर्शने विषधरारोपः, न च भवतां कदाचन स्थिरता प्रतीतिगोचरचारितामनुभवति, तत्कथं प्रतिक्षणमुदयापवर्गसंसर्गिणि सकले वस्तुनि प्रत्यक्षेणावलोकितेऽपि तदारोप इति तस्मात्तिरोहितक्षणविवर्तमलक्षित परमाणुवैविक्त्यं वस्तु सांव्यवहारिकप्रमाणेगौचरीक्रियते । तत्तिरस्कारद्वारेण अदृष्टक्षणक्षयिपरमाणुप्रतिष्ठापकोऽभिप्राय ऋजुसूत्रो सुर्नयसंज्ञामञ्जते, तदुपेक्षयैव तद्दर्शकस्य नयत्वात् । इति ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
तथा शब्दादयोऽपि सर्वथा शब्दाव्यतिरेकमर्थस्य समर्थयन्तो दुर्नया:, तस्समर्थनार्थमुपन्यस्तस्य तत्प्रतीतौ प्रतीयमानस्वलक्षणस्य हेतोरनैकान्तिकत्वात् । तथा हि- नायमेकान्तो यत्प्रतीतौ यत्प्रतीयते तत्ततोऽव्यतिरिक्तमेव, व्यतिरिक्तस्यापि पावकादेरम्यथानुपपन्नत्वलक्षण संबन्धबलाद् धूमादिप्रतीती प्रतीयमानत्वात् । एवं शब्दोऽपि व्यतिरिक्तमध्यर्थं वाचकत्वात् प्रत्याययिष्यति, अव्यतिरेकस्य प्रत्यक्षादिबाधितत्वात् शब्दाद्विवेकेनैवानुभूयमानत्वात्, आस्मिंश्च हेतावनैकान्तिके स्थिते सर्वार्थानां स्ववाचकत्वसाधनद्वारेण शब्दाव्यतिरेकसाधनमपि दूरापास्तमेव । न चात्रापि प्रतिबन्धग्राहि प्रमाणम् - यो योऽर्थस्तेन तेन सवाधकेन भवितव्यम्, घटादिदृष्टान्तमात्रात्तदसिद्धेः, क्षणिकालक्ष्य द्रव्यविवर्तानां संकेत ग्रहणोपायाभावेनाभिकपितुमशक्यतया अनभिलाप्यत्वसिद्धेश्च क्षणभङ्गुरताप्रतिज्ञानं पुनरमीषामपि ऋजुसूनवनिरसितम्यम् । तथा प्रत्येकमतापेक्षयापि स्वाभिप्रेतं प्रतिष्ठापयन्तस्तद्वि
सर्वथेति । एवं वदन् इदमाह- कथंचित् शब्दादव्यतिरेकोऽर्थस्याभ्युपगम्यते एवं जैनैः । अयं चार्थः अभिहाणं अभियाउ होइ भिन्नं अभिन्नं च इत्यादिना प्राग्दर्शित एवेति । भस्म ताविति । शब्दप्रतीतावर्थस्य प्रतीयमानत्वाद् इत्येवंरूपे । अलक्ष्यद्रव्यविवर्तानामिति । बालानामपि अतिप्रतीतत्वात् अलक्ष्ये इत्युक्तम्, यावता स्फुटमनुभूयमाना अषि केचन वस्तूनां पर्याया अनभिलाप्या एव । यदुक्तम् -
सिद्धान्तरहस्यं चात्र
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वनापि शक्यते ।।
पत्रवणिज्या भावा अणन्तभागो उ अणमिलप्पाणं ।
पनवणखाणं पुण अणन्तभागो सुयनिबद्धो ॥ ( विशे० भा०, १४१ )
[ प्रज्ञापनीया भावा अनन्तभागमानमिलाप्यानाम् ।
प्रज्ञापनीयानां पुनरनतभागः श्रुतनिबद्धः ॥ ]
For Private And Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110