Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हारेग तद्रूपसंकलनात् स्थिरमेवेदं समस्तक्रियासु व्याप्रियते इति प्रतीतिवीथीमकतरति, स्थैर्यस्यापि तास्विकत्वात्, क्षणिकपर्यायाणां विद्यमानानामप्यग्रहणात्, प्राकृतलोकज्ञानस्यावरणक्षयोपशमापेक्षितया कतिचिदंशविषयत्वात् । यदि पुनम्यबुद्धिः पर्यायपरंपरादर्शनबलायातस्वादतात्त्विकी कल्प्येत, तदा पूर्वपर्यायस्योत्तरपर्यायोत्पादने सान्वयस्वं निरन्वयत्वं वा वक्तव्यम् , गत्यन्तराभावात् । सान्वयस्वे द्रव्यं पर्यायान्तरेणाभिहितं स्यात् , निरन्वयत्वाञ्च पुनर्निहेतुतयोत्तरपर्यायानुत्पादप्रसङ्गः। तोभय. रूपवस्तुव्यतिरेकेणार्थक्रियासिद्धिः । न चार्थक्रिया वस्तुलक्षणम् , शब्दविद्युत्प्रदीपादि. चरमक्षणानां क्षणान्तरानारम्भकत्वेनावस्तुत्वप्राप्तेः, तदवस्तुत्वे पुनरुपान्त्यक्षणस्यापि वस्तुनि व्यापाराभावात् , एवं यावत्सर्वक्षणानां संकलिकया वस्तुत्वम् । अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजनकत्वमर्थक्रिया परिकल्प्येत, तथा सति अतीतभावपर्यायपरंपरापि योगिज्ञानगोचरतां यातीति वस्तुत्वं स्वीर्यात्, तन्नार्थक्रिश वस्तुलक्षणम् , अपि तु उत्पादव्ययध्रौव्ययुक्तता, प्रमाणप्रतिष्ठितस्वात् । उत्पादण्ययाँ ध्रौव्येण सह विरुद्धाविति चेत् , कुतोऽयं विरोधः, प्रमाणादप्रमाणाद् वा । न तावदाद्यः पक्षः, सर्वप्रमाणानां बहिरन्तस्तथाविधवस्तुद्योतनपटिष्ठतया प्रसाधितस्वात् । नापि द्वितीयः, अप्रमाणस्याकिंचित्करत्वात् । एतेन स्थरतादपणमपि प्रतिक्षिप्तम , प्रतिभासहतत्वात् , तदपलवे विरोधोद्भावे तस्य निर्मलतया प्रलापमानत्वान । यस्पन वर्तमानप्रकाशरूपतया तत्संबन्धवस्तग्राहित्वं सर्वप्रमाणानामुदग्राहि तदयुक्तम् . तेपामेकान्तेन वार्तमानिकरवासिद्धेः, कथंचिदारमाव्यतिरेकित्वात् , तस्य च कालग्रयव्यापकत्वात्, तद्रूपतया तेषामप्यवस्थानात्, ततश्चात्मनोऽर्थग्रहणपरिणामरूपत्वात् । सर्वप्रमाणानां परिणामिन्येव वस्तुनि व्यापारो न क्षणिके। न चातीतानागनक्षणव. तिवस्तुग्रहणेप्यनाद्यनन्तजन्मपरंपराग्रहणप्रसङ्गः, आवरणविच्छेदसापेक्षत्वात् , तस्यव परमार्थतः संवेदनाविर्भावान्तरकारणत्वात् , ग्राह्यादेवहिरङ्गत्वात् । सामन्यन पुनरा. वरणविलये सति समस्तवस्तुविस्तारानाद्यनन्तक्षणपरंपराग्रहणप्रसङ्गो ना(ता)नाया. धाकारी, इष्टत्वात् । तदेकदेशक्षयोपशमे पुनस्तदनुसारिणी बोधप्रवृत्तिरिति कियस्कालं भाविनि स्थूरे वस्तुनि प्राकृतलोकज्ञानानि प्रवर्तन्ते न संपूर्णे। न च तान्यसीकानि, तग्राह्यांशस्यापि वस्तुनि भावात् तावतैव व्यवहारसिद्धेरिति । यथोक्तम्-क्षणिकतां गृह्णन्तोऽपि सहशापरापरोस्पत्तिविप्रलब्धवाद मन्दा नाध्यवस्यन्ति, मिथ्याविकल्प वीथीं मार्गम् । पर्यायान्तरेण नामान्तरेण । न चार्थक्रिया वस्तुलक्षणमिति । गदाह रागान्धावस्थायामपि धर्मकीर्तिः गच्छतु कापि ते स्वान्तः कान्ते कार्य त्वयैव च । यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥ इति । उपान्स्येति । अन्तस्य समीपमुपान्त तत्र भवमुपान्त्यम् दिगादिदेहाशाद यः (सि. है.६.३.१२४) इति यः। न्याया-१२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110