Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिदिः, यदि पुनर्यदेव साक्षात्र विशददर्शने चकास्ति तत्सकलमपलप्येत हन्त बहिदानीमपलपनीयम् , घटादिवस्तुनोऽध्यर्वाग्भागवर्तित्वङ्मात्रप्रतिभासात् मध्यपरभागादीनामपलापप्रसङ्गात् , तथा च लोकव्यवहारकारितापि विशीर्यंत, तावसा तदसिद्धेः । अथात्रानुमानबलेन म्यवहारक्षमसंपूर्णवस्तुनः साधनम् , एवं तर्हि भूत. भाविपर्यायपरमाणुसाधनमपि क्रियताम् , विशेषाभावात् । तथा हि- यथा बाह्य. स्वमात्रप्रतिभासेऽपि सर्ववस्तृनां तावता व्यवहाराभावाद् मध्यभागादिसाधनेन सं. पूर्णानि तत्समर्थानि तानि साध्यन्ते, तथैव कियत्कालभाविधनाकारदर्शनेऽप्यनाथनन्तपरमाणुतादात्म्यव्यवस्थितशरीराणि तानि साध्यन्ताम् , तदभावेऽपि तेषामनुपपत्तेः । तथा हि- व्यवहारावतारिणो दर्शनयोग्यस्याद्यपर्यायस्य तावदतीतपर्यायानभ्युपगमे निहेतुकत्वम् , तत्र चोक्तो दोषः, तदुत्पादकादन्तरपर्यायेष्टौ पुनस्तजनक पर्यायोऽभ्युपगन्तव्य इति अनादिपर्यायपरंपरासिद्धिमध्यासीत, तथा व्यवहाराव. तारिवस्तुपर्यन्तपर्यायस्य पर्यायान्तरानुत्पादकत्वे बलादवस्तुत्वमाढौकते, भवनीतेरे. वार्थक्रियाकरणवैकल्यात्, तदुत्पादकत्वे पुनरसावप्यपरपर्यायोत्पादकत्वे इत्यनन्त. पर्यायमालोपपद्यते। तथा घनाकारोऽपि विशददर्शनेन साक्षास्क्रियमाणो निष्प्रदेशपर्यन्तावयवव्यतिरेकेण नोपपद्यते, करचरणशिरोग्रीवाद्यवयवानां खण्डशो भिद्यमान. तयावयविरूपत्वात् , तदवयवानामप्यवयवान्तरघटितत्वात् । परमाणव एव पर्यन्तापयवाः परमार्थतो घनाकारहेतवः, तदभावे पुनराकस्मिकोऽसौ सर्वतोपलभ्येत, न या कचित् , विशेषाभावात् । एतेन यदवादि- लोकव्यवहारावतारिणः प्रमाणमनुग्राहकमस्ति वस्तुनो नेतरस्येत्यादि तदपि प्रतिक्षिप्तमवगन्तव्यम् , दृश्यमानार्थाम्यथानुपपस्यैव तत्साधनात् । यत् पुनरुक्तम्- किं तेषामतीतानागतपर्यायपरमाण्वा. दीनां पर्यालोचनेन लोकन्यवहारानुपयोगितया वस्तुत्वादित्यादि, तदयुक्तम् , उपे. ___अनुमामतः सिद्धिरिति । द्वथणुकादिस्कन्धो भेषः, मूर्तत्वे सति सावयवत्वात् , कुम्भवत् । सावयवैराकाशादिभिर्व्यभिचारपरिहारार्थ मूर्तत्वे सतीति विशेषणम् । ये च द्वयणुकादिभेदादनन्तरमंशा समुत्पद्यन्ते अवयवास्ते परमाणवः । अथवान्यथानुमानयामःअणुपरिमाणतारतम्यं क्वचिद् विश्रान्तम् , परिमाणतारतम्यत्वात् , आकाशपरिमाणतारतम्ययत् । यत्र अणुपरिमाणतारतम्यं विश्रान्तं त एव परमाणवः । अथानुमानबलेनेति । तथा हि- अर्वाग्भागः सांशः, अर्वाग्भागत्वात् , संप्रतिपन्नार्वाग्भागवत् । न च वाच्यं यद्यर्वाग्भागदर्शनेनावयवी साध्यन्ते, तर्हि घटशकलमात्रस्यापि सांशत्वसिद्धिः प्राप्नोति, यतो घटशकलं भागमात्रं न त्वर्वाग्भाग इति कथं तेन व्यभिचारः ? । तानीति । वस्तुनि भाद्यपर्यायस्येति । वार्तमानिकस्य, तत्र चोक्तो दोष इति । निसं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ।। इति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110