Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org " टीका-टिप्पनसहितः इति भावाभावात्मकः, यदि पुनः कथंचिन्नाभावात्मकः स्यात्, तदा पटादिरूपेणापि भावात् सर्वात्मकः प्राप्नोति युक्तमेतत्, अत एव भेदप्रपञ्चविकयसिद्धिरिति चेत्, स्यादेतत्, यदि पटाद्यभावैकान्ताच्छून्यवादिनो मनोरथपूरणं न स्यात् । तथा हिपटादिविविको घटोऽनुभूयते, न च पटाद्यभावो भावेन सह तादात्म्यमनुभवति, तस्मादभावात्मक एवायम्, एवं पटादयोऽपीतरेतरापेक्षयेति शून्यत्वापत्तिः, तस्मात् स्वरूपमा बिभ्राणं पररूपेभ्यो व्यावृत्तमेव वस्तु सर्वक्रियासु व्याप्रियते इति भावाभावात्मकस्यैव ग्यापारः स्वरूपधारणस्य स्वभावत्वात्, पररूपग्यावर्तनस्याभावस्वादिति । एवं स्वगोचरप्रत्यक्षोत्पादनेऽपि व्याप्रियते, ततश्च तद्रूपमेव तत्साक्षात्कुर्यादिति स्वरूपनियते पररूपेभ्यो व्यावृत्ते एव वस्तुनि प्रत्यक्षं प्रवर्तते, तज्जन्यत्वात्, न भावमात्रे, तस्य केवलस्य स्वरूपाव्यवस्थितेरुत्पादकत्वायोगात् । न च जनकत्वादर्थो प्रायो जन्यत्वाद्वा ज्ञानं ग्राहकमतिप्रसङ्गादित्युक्तम्, किं तर्हि आवरणविच्छेदादेर्लब्धसत्ताकं ग्रहणपरिणामात् ज्ञानं गृह्णाति, भर्थस्तु संनिधानादेर्गृह्यते स चानुवर्तमानण्यावर्तमानरूप एव प्रतीयते इति तथाभूतोऽभ्युपगन्तव्यः, न केवलं सामाम्यरूप इति । सदसदंशयोः कथमेकत्रावस्थानमिति चेत्, तादात्म्येनेति ब्रूमः । ननु तादात्म्यं भावमात्रमभावमात्रं वापद्येत, इतरेतराव्यतिरिक्तत्वात् इतरेतरस्वरूपवत्, तन्नोभयरूपवस्तुसिद्धिः । नैतदस्ति, तादात्म्यस्य संबन्धत्वात् संबन्धस्य च द्वयनिष्टत्वात् तदभावे कस्य केन संबन्धः निर्गोचरत्वात् । तस्मादेतौ सदसदंशी धर्मरूपतया अभेदिनौ, वस्तुनः सदसद्रूपस्यैकत्वाद्, धर्मरूपतया पुनर्विवक्षितौ भेदमनुभवतः, स्वरूपेण भावात्, पररूपेण त्वभावादिति । तदेवं प्रत्यक्षे विविक्तवस्तुग्राहिणि सकलप्रमाणष्ठे प्रसाधिते शेषप्रमाणान्यपि तदनुसारितया विविक्तमेव स्वगोचरं स्थापयन्तीति, तदपलापी केवलसामान्यप्रतिष्ठापकः कदभिप्रायः संग्रहदुर्नयव्यपदेशं स्वीकुरुते, विशेषापेक्षयैय सामान्यस्थापकस्य संग्रहनयत्वादिति ॥ , " तथा व्यवहारोऽपि प्रमाणप्रसिद्धं वस्तुस्वरूपं निङ्खुवानो युक्तिरिक्तमविचारितरमणीयं लोकव्यवहारमार्गानुसारि समर्थयमानो दुर्नयतामात्मनि निधत्ते, लोकव्यवहारप्रसाधकस्यापीतरानिष्टौ व्यवस्थानाभावात् । तथा हि- यदीदं कियत्कालभावि स्थूरतामाविभ्राणां लोकव्यवहारकारि घटादिकं भवतस्तास्विकमभिप्रेतं तन्नाकस्मिकम्, किं तर्हि नित्यपरमाणुघटितम् इतरथा निष्कारणत्वेन सर्वदा भावाभावप्रसङ्गात् । न ते परमाणवस्तथा प्रतिभान्तीति चेत्, न, अत एव तेषामनुमानत: प्रत्यक्षम् । अतिप्रसङ्गादिति । चक्षुषा जन्यमानस्यापि ज्ञानस्य चक्षुरग्राहकत्वात् । आवरविच्छेदादेरिति । विच्छेदः क्षयः, आदिशब्दात् क्षयोपशमः तद्धेतवश्च कारणत्वेन द्रव्यक्षेत्रकालालोकादयः गृह्यन्ते, तर्हि ज्ञानावरणकर्मणः क्षयोपशमे कृते तदनन्तरमव्यवधानेन ज्ञानमुत्पद्यते इति । प्रष्ठे इति । विशदप्रतिभासरूपत्वेन सकलप्रमाणमुख्ये । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only >

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110