Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्यावावतार
पुनः सत्तान्तरसंबन्धानिवारणात् । असन्तश्चेदत्यन्तासतामपि गगनारविन्दादीनां सत्तासंबन्धात् भावरूपतापयेत । एवं द्रव्यस्वगुणस्वकर्मत्वगोस्वादिसामान्येष्वपि समस्तमेतद्वाच्यम् , एकयोगक्षेमत्वात् , तत्र परस्परमत्यन्तव्यतिरेकिणी सामान्यविशेषौ कथंचन घटामाटीकेते। अत एव तत्समर्थनप्रवणस्तत्तादात्म्यप्रतिक्षेपकोऽभिप्रायो निरालम्बनहानेगमदुर्नयस्य ग्यपदेशमास्कन्दति, तादाल्यापेक्षयैव सामान्य. विशेषव्यतिरेकसमर्थकस्य नैगमनयत्वात् , म्यतिरेकिणोरपि तयोर्वस्तुनि कथंचिद् भावात् , इतरथा विवक्षयापि तथा दर्शयितुमशक्यत्वात् , प्रधानोपसर्जनभावस्य द्वयनिष्ठत्वात् , अत्यन्ततादात्म्येन तत्कारिण्या विवक्षाया अपि निगोंचरताप्रसङ्गात् । तस्मात्कथंचिद् भेदाभेदिनावेवैतौ, तदन्यतरसमर्थकः पुनः निरालम्बनस्वात् दुर्नयतां स्वीकरोतीति स्थितम् ।।
तथा संग्रहोऽप्यशेषविशेषप्रतिक्षेपमुखेन सामान्यमेकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणैव तस्य नयत्वात् , विशेषविकलस्य सामान्यस्यासंभवात् । तथा हियत्तावदुक्तम्- यदुत विशेषाः सामान्याद् व्यतिरेकिणोऽव्यतिरेकिणो वा । व्यतिरेकपक्षे निःस्वभावत्वम् , निःसत्ताकस्वात् । अव्यतिरेकपक्षे भावमात्रम् , तदव्यतिरि. तत्वात् , तत्स्वरूपवत् । तदयुक्तम् , विशेषवादिनोऽप्येवंविधविकल्पसंभवात् । तथा हि-विशेषेभ्यःसामान्य व्यतिरिक्तमव्यतिरिक्तं वा। व्यतिरिक्तं चेन्न तर्हि सामान्यम्, स्वस्वरूपव्यवस्थिततया विशेषरूपत्वात् । अव्यतिरिक्त चेत् , तथापि न सामान्यम् , विशेषाव्यतिरिक्तवादेव तस्वरूपवत् । यदप्यवादि - अनाचविचावलप्रवृत्तो विशेषव्यवहारः, तास्विकं सामान्यम् , तदपि च वचनमात्रमेव, युक्तिरिक्तस्वात्, सामान्यमेवानाचविद्यादर्शितम् , विशेषाः पुनः पारमार्थिका इति विशेष. वादिनोऽपि वदतो वक्त्रभन्नाभावात् । यत्पुनर्विशेषग्राहकप्रमाणाभावं प्रतिपादयता अभ्यधायि - यदुत प्रत्यक्षं भावसंपादितसत्ताकं तमेव साक्षात्करोति नाभावं तस्याः नुस्पादकरवादित्यादि, तदयुक्ततरम् , यतः केनेदं भवतोऽत्यन्तसुहृदा निवेदितं भाव एव केवलः प्रत्यक्षमुपस्थापयति, न पुनरभावोऽपि । अभावव्यापाराभावप्रतिपादकयुक्तिकलापेनेति चेत् मुग्ध विप्रतारितोऽसि, तव्यापाराभावासिदेः, सदसद्प. वस्तुनः समस्तक्रियासु व्यापारात् । भावतादात्म्येन व्यवस्थितस्याभावस्य व्यापारविरोधाभावात् कथं भावाभावयोस्तादात्म्यम् ? विरोधादिति चेत् , न, प्रमाणप्रसिद्ध विरोधाभावात् । तथा हि-घटादिकः पदार्थास्मा स्वरूपेण सन् , न पटादिरूपेणापि
इतरथेति । यदि कथंचिद् व्यतिरेकिणावपि सामान्यविशेषो न स्याताम् । सयेति । व्यतिरेकेण । तत्कारिण्या भेदविधायिन्या।
यक्तिकलापेनेति । भावांशनैव संयोगो योग्यत्वादिन्द्रियस्य हि । इत्यादिना व्याप्रियते इति भावाभावात्मकं वस्त्विति शेषः । तद्रूपमिति । भावाभावात्मकवस्तुरूपम् । तदिति।
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110