Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः क्षया वार्तमानिकवस्तुनोऽनुपयोगित्वेनावस्तुत्वप्राः, सर्वस्य सर्वलोकानुपयोगिस्वात् । कस्यचिदुपयोगितया वस्तुत्वे तेषामपि सा समस्त्येव, सर्वज्ञज्ञानादिगोचरत्वाद् इत्यास्तां तावत् । तदेवं प्रमाणप्रसिद्धार्थापलापिस्वाद् म्यवहारो दुर्नयः, तदुपेक्षया व्यवहारानुपातिवस्तुसमर्थकस्य व्यवहारनयत्वादिति । अथ ऋजुसूत्रोऽपि दृष्टापलापेनादृष्टमेव क्षणक्षयिपरमाणुलक्षणं वस्तुस्वरूपं परमार्थतया मन्यमानो दुर्नयतामास्कन्दति, दृश्यमानस्थिरास्थूराापह्नवे निर्मूलतया स्वाभिप्रेतवस्तुसमर्थकपरामर्शस्योत्थानाभावात्। तथा हि- स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षाल्लक्षयन् पश्चात् कुयुक्तिविकल्पेन विवेचयेत्, यदुतैष स्थिरस्थूरो दृश्यमानः खल्वाकारो न घटामियति, विचाराक्षमत्वादित्यादिना च दृष्टमदृष्टसंदर्शकैः कुयुक्तिविकल्पैर्वाधितुं शक्यम् , सर्वत्रानाश्वासप्रसङ्गात् । अथाभिदधीथाः- मन्दमन्दप्रकाशे प्रदेशे रजौ विषधरभ्रान्तिः प्राक्तनी यथोदीचीनेन तनिर्णयकारिणा विकल्पेन बाध्यते, तथेदमपि स्थिरस्थूरदर्शनं क्षणक्षयिपरमाणुप्रसाधकपरामर्शेन, किमत्रायुक्तम् , नैतदस्ति, रज्जुप्रतिभासस्यैव प्राक्प्रवृत्तविषधरभ्रान्स्यपनोददक्षवात् , सदभावे च विकल्पशतैरपि निवर्तयितुमशक्यत्वात् , अत्रा. प्यतीतवस्य॑तोर्विनष्टानुत्पन्नतया संनिहितत्वात् , स्थूरावयवानां च स्वावयवेषु भेदाभेदद्वारेण पर्यालोच्यमानानामवस्थानाभावात् क्षणक्षयिपरमाणव एवं प्रतिभान्ति, ततश्च प्रतिभास एव स्थिरस्थरदर्शनस्य बाधक इति चेत् , एवं तर्हि प्रतिभासस्थोपदेशगम्यतानुपपत्तेः तथैव व्यवहारः प्रवर्तेत । पाश्चात्यमिथ्याविकल्पविष्ट. वान प्रवर्तते इति चेत् , न, अन्यत्राप्यस्योत्तरस्य विप्लवहेतुत्वात् । तथा हि-धवले जल. आदौ प्रतिभातेऽपि 'नीलोऽयम् ' अध्यक्षेणावलोकितः पाश्चात्यमिथ्याविकल्पविप्लवाद् धवलः प्रतिभातीति भवन्न्यायेन शठः प्रतिजानानः केन वायेंत । तत्र दृष्टापलापः कर्तुं शक्य इति स्थिरस्थूरवस्तुसिद्धिः, तस्यैव दर्शनात् , इतरस्य तदर्शनद्वारेण साध्यमानस्यानुमेयत्वात् , तदनिष्टौ तस्याप्यसिद्धेः। एतेन स्थिरस्थूरवस्तुनोऽर्थकि. याविरहप्रतिपादनमपि प्रतिव्यूढम् , तथाविधस्यैव सर्वक्रियासु व्यापारदर्शनात् क्षणक्षयिणोऽयक्रियानिषेधाच्च । यथोक्तं प्राक्-क्षणभङ्गुरो यर्थात्मा स्वक्षणे पूर्व पश्चाद्वा कार्य कुर्यादित्यादि । किं च सत्वपुरुषत्वचैतन्यादिभिर्बालकुमारयुवस्थविरत्वहर्षविषादादिभिवानुवर्तमानब्यावर्तमानरूपस्य सर्वस्य वस्तुनः प्रतीतेव्यपर्यायात्मकत्वम्, अभेदस्य द्रव्यत्वात् , भेदस्य पर्यायरूपत्वादिति । ततश्च भूतभाविक्षणयोरसंनिधा. नद्वारेण वार्तमानिकक्षणस्यैवार्थक्रियाकारित्वप्रतिपादनं नास्मद्वाधाकरम् , पर्यायाणां क्रमभावितया वर्तमानयर्यायालिङ्गितस्यैव द्रव्यस्यार्थक्रियाकरणचतुरस्वात, केवलं तत्रिकालव्यापि द्रष्टापि द्रन्यरूपतया यथाभूत एव, ततश्च क्षणिकपर्यायतिरोधान इतरस्य क्षणक्षयिपरमाणुतत्त्वस्य । तद्दर्शनेति । स्थिरस्भ्रवस्तुदर्शनद्वारेण । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110