Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पापाRE विनवेदपि, मनिष्टं चैतत्, सर्वकृतकानां विनाशाविगानात् । अथ द्वितीयः पक्षा, तथा सति पवादपि तबलाद्विनाशहेतवः संनिधास्यन्ति इति प्रथमक्षणे एव संनिबघत, तथापि क्षणिकतैवार्थस्य । स्वहेतोरेव नियतकालात् परतोऽयं स्वविनाशहेतुं संनिधापयिष्यतीति एवंरूपो जातइ ति चेत्, न, एवमपि क्षणभङ्गरतायाता । तथा हि- स्वहेतुना किलासौ वर्षारपरतः स्वविनाशहेतुसंनिधापनक्षमस्वभावो व्यधायि, स च तस्योत्पादक्षणात् द्वितीयक्षणे स्वभावोऽस्ति न वा ? अस्ति चेत्, तथा सति पुनर्वर्ष तेन स्थातव्यम् , एवं यावद्वर्षोपान्त्यक्षणेऽपि यदि तत्स्वभाव एवासौ तदापरमपि वर्षान्तरं स्थितिरापयेत, तदा चानन्तकल्पस्थायी भावः स्यात् , अप्रच्युतवर्षस्थायिस्वभावत्वादिति । अथ द्वितीयक्षणे नास्ति स स्वभाव इति ब्रूषे, हन्त क्षणिकस्वमेवाडौकते, अतादवस्थ्यस्य तल्लक्षणत्वात् । किं च । विनाशहेतुर्भावस्य विनाश म्यतिरिक्तमम्यतिरिक्तं वा कुर्यात् , व्यतिरिक्तकरणे न किंचित् कृतं स्यात् , ततम्ब भावस्तादवस्थ्यमनुभवेत् । तत्संबन्धः क्रियते इति चेत् . संबन्धस्य तादात्म्यतदु. स्पत्तिव्यतिरिक्तस्य प्रतिषेधात् । न चानयोरन्यतरः संबन्धोऽन्न समस्ति, व्यतिरे. किणा साधं तादात्म्यायोगात्, अन्यहेतुकस्य पश्चादुत्पन्नस्य तदुत्पत्तिवैकल्यात् । तन्न व्यतिरिक्तो विनाशः कर्तुं युक्तः। अव्यतिरिक्तकरणे पुनस्तमेव भावं विनाशहेतुः करोतीति प्राप्तम् , अव्यतिरेकस्य तद्पतालक्षणत्वात् । न चासौ कर्तव्यः, स्वहेतोरेव निष्पनत्वात् , तत्करणे च तस्यावस्थानमेव स्यान्न प्रलयः । तन्न अविनश्वरस्वभावानां पश्चात् कथंचिदपि विनाशः कर्तुं शक्यः, विनश्वरस्वभावामां पुनः स्वहेतुबलायातत्वात् प्रागपि प्रतिक्षणभावी न कारणान्तरापेक्षः, स्वभावस्य नियतरूपत्वात् , तस्मात् माणिति अद्यापि प्रतिक्षणविलय इति । अत्रोच्यते-सत्यमेतत् , किं तु यथा विनाशकारणायोगात् प्रतिक्षणभावीति नाशो भवद्भिः प्रतिपद्यते, तथैव स्थित्युत्पत्ती प्रतिक्षणभाविन्यौ किं न प्रतिपद्येते. तद्धेतूनामपि विचार्यमाणानामयोगात्। तथा हिस्थितिहेतुना तावत्स्वयमस्थिरस्वभावा भावाः स्थाप्येरन् स्थिरस्वभावा वा। न तावत्प्रथमः पक्षः क्षोदं क्षमते, स्वभावस्यान्यथा कर्तुमशक्यत्वात् , तस्य प्रतिनियतरूपत्वात् , चेतनाचेतनस्वभाषवत् , अन्यथा स्वभावताहानेः। द्वितीयपक्षे पुनः स्वयं स्थिरस्वभावानां किं स्थितिहेतुना ? परः स्थितिनेष्यते एव, तेनानभ्युपगतोपालम्भ एवायमिति चेत् , हन्त हतोऽसि, एवं हि भावाः क्षणमात्रमपि न तिष्ठेयुः। क्षणभाविनीष्यते एवेति चेत् , सा तर्हि अस्थितिस्वभावानां हेतुशतैरपि कर्त न पार्यते इति ब्रूमः । तत्स्वभावस्वे पुनहेंतुव्यापारनैरर्थक्यात् । अहेतुका सती सकल.
करुपस्थायीति । युगं द्वादशसाहस्रे कल्पं विद्धि चतुर्युगम् - इति लौकिकाः कल्पमाहुः । अत्रेति । भावविनाशयोः । अन्येत्यादि। मुद्गरहेतुकस्य विनाश्योसरकालमाविमो विनाशस्य घटादेविनाश्यदुत्पत्यभावात् । तथैवेति ! स्थित्युत्पत्त्योः प्रतिक्षणमावित्वं बौद्धस्याभीष्टमेव, परं तथैव निर्हेतुकत्वेनैवेत्यत्र साध्यम् ।
For Private And Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110