Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतार:
प्रतिभासः, यत्र च विशिष्टदेशदशावच्छिन्नबोधनिायो विशेषो न तत्र सामान्याव. गतिः, तद्वचनमानमेव, धवखदिरपलाशादिसमस्तविशेषापसरणे वृक्षत्वादिसामान्य प्रतिभासाभावात् । दूराद्विशेषाग्रहणेऽपि केवलं तच्चकास्तीति चेत् , तत्राप्यभ्यन्तरीभूतविशेषप्रतिभासात् , तद्विरहे शशविषाणरूपत्वात् । एवं विशेषा अपि न सामान्यादत्यन्तव्यतिरेकिणः प्रतिभान्ति, तन्निमनानामेव तेषां ग्रहणात् , इतरथा सत्ता. तोऽतिरिच्यमाना भावा निःस्वभावतामात्मसात्कुर्वन्ति । तथा वृक्षत्वादिसामान्ये. भ्योऽपि भेदिनो वृक्षादयो न स्युः, तदभेदनिबन्धनत्वात् तत्स्वरूपस्थितेः, तस्मातदेव संवेदनमुपसर्जनीकृतवैषम्यं प्रधानीकृतकाकारं सामान्यं गृह्णाति इत्युच्यते, न्यक्कृतसमत्वमुत्कलितनानात्वं पुनर्विशेषग्राहीति, समत्वनानात्वयोः कथंचिद् भेदाभेदिनोः परस्परं सर्वार्थेषु भावात् , तदभावे तथाविधप्रतिभासानुपपत्तेः । एतेन यदवादिन चैतौ विभिन्नावपि प्रतिभासमानौ सामान्यविशेषो कथंचिद् मिश्रयितुं युक्तावित्यादि' तदपास्तमवगन्तव्यम् , विभिन्नयोः प्रतिभासाभावात् , व्यवहारोऽपि सर्वप्रधानोपसर्जनद्वारेण कथंचिदितरेतराविनिटुंठितसामान्यविशेषसाध्य एव। न हि सामान्यं दोहवाहादिक्रियायामुपयुज्यते, विशेषाणामेव तत्रोपयोगात् ; नापि विशेषा एव तत्कारिणः, गोत्वशून्यानां तेषां वृक्षाद्यविशिष्टतया तत्करणसामर्थ्याभावात् । किं च अत्यन्तव्यतिरेके सामान्यविशेषयोः 'वृक्षं छिन्द्धि' इति चोदितः किमिति तद्विशेषे पलाशादी छेदं विधत्ते ? तत्र तस्य समवायादिति चेन्न । समवायग्राहकप्रमाणाभावात्, भावेऽपि विश्लिष्टयोरभेदबुद्धयुत्पादनाक्षमत्वात् , तस्यापि व्यतिरिक्ततया पदार्थान्तराविशेषात् नित्यत्वैकत्वसर्वगतत्वादिभिश्च सर्वत्र तत्करणप्रसङ्गात् । यत्पुनरवादीः ‘यदुत यदि सामान्यं विशेषनिष्ठम् , विशेषो वा सामान्यव्याप्तः समुपलभ्येत, ततो विविक्तयोस्तयोः क्वचिदनुपलम्भात् योऽयं विविक्तः सामान्यविशेषेषु चाभिधानार्थक्रियालक्षणो व्यवहारः स समस्तः प्रलयं यायाद् , लोलीभावेन तद्विवेकस्य कर्तुमशक्यत्वात्', तदप्यसमीचीनम् । यतो यद्यपि परस्पराविविक्त्योः सामान्यविशेषयोः सर्वत्रोपलम्भः, तथापि यत्रैव प्रमातुरर्थित्वं तदेव सामान्यम् , विशेषान्वा प्रधानीकृत्य तद्गोचरं ध्वनिमर्थक्रियां वा प्रवर्तयति, इतरस्याप्युपसर्जनभावेन तत्र व्यापारात्, तद्विकलस्येतरस्यापि शशविषाणायमानतया कचिदनुपयोगात्। किं च, अत्यन्तव्यतिरेकिणि विशेषेभ्यः सामान्ये वृत्तिविकल्पोतद्विरहे विशेषाणामभावे । शशविषाणरूपत्वादिति । यदुक्तम् -
निर्विशेषं न सामान्यं भवेच्छशविषाणवत् ।
विशेषोऽपि च नैवास्ति सामान्येन विनाकृतः ॥ इति । उपसर्जनीत्यादि । उपसर्जनीकृतं गौणीकृतं वैषम्यं विशेषरूपता येन तत्तथा न्यकृतसमत्वमिति । तिरस्कृतसामान्यम् ।
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110