Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२ टीका-टिप्पनसहितः प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाचाहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽभिधीयते, न शेषः, घटशब्दव्युत्पत्तिनिमित्तशून्यस्वात् , पदादिवदिति । अतीतां भाविनी वा चेष्टामधिकृत्य सामान्येनैवोच्यते इति चेन, तगोविनष्टानुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्वारेण शब्दः प्रवर्तते, सर्वत्र प्रवर्तयितव्यः, विशेषाभावात् । किं च यद्यतीतवस्य॑ चेष्टापेक्षया घटशब्दोऽ. चेष्टावत्यपि प्रयुज्येत, कपालमृपिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्यात् , विशेषा. भावात् , तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन्नेव सोऽर्थस्तग्छ ग्देन वाच्य इत्येवंभूतः। ____नदेवमनेकधर्मपरीतार्थग्राहिका बुद्धिः प्रमाणम् , तद्द्वारायातः पुनरेकधर्मनिष्टार्थसमर्थनप्रवणः परामर्शः शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्तमानो नयः। स च धर्माणामानन्त्यादनन्तभेदः, तथापि सर्वसंग्राहकाभिप्रायपरिकल्पनमुखेनैव सप्तभेदो दर्शितः । अयमेव च स्वाभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारद्वारेण प्रवर्तमानः परामर्शी दुर्नयसंज्ञामश्नुते । तदलप्रभावितससाका हि खल्वेते परप्रवादाः । तथा हि-नगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको । संग्रहाभिप्राय. प्रवृत्ताः सर्वेऽप्यद्वैतवादाः, सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसत्राकृतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनयमतावलम्बिनो वैयाकर. णादय इति । अर्थत्थमभिदधीथाः यथा- कथमेतेऽवधारणद्वारेण स्वकमर्थ समर्थयन्तस्तद्विपरीतं निराकुर्वाणा दुर्नयतां प्रतिपद्यन्ते इति, अनोच्यते- एवं प्रवृत्ती निगोचरत्वात् , निगांचरस्य नयत्वायोगात् । तथा हि - नयति केनचिदंशेन विशिष्टमर्थ प्रापयति योऽभिप्रायः स नयः, स्वाभिप्रेतधर्मात् शेषधर्मप्रतिक्षेपद्वारेण तु प्रवत्ती न किंचन नयति, एकधर्मालिङ्गितस्य वस्तुनोऽसंभवात् , बहिरन्तश्चानेकधर्मपरिकरितस्वभावस्य तस्य प्रतिभासात् , तदपदवकारिणां कदभिप्रायाणां प्रतिभासबाधित्तत्वेनालीकत्वात् । तथा हि- यः तावन्नैगमनयः परस्पर विश्लिष्टी सामान्यविशेषी प्रत्यपीपदत् , तदयुक्तम् , तयोस्तथा कदाचन प्रतिभासा. भावात् । यच्चोक्तम् - अनुवर्तमानकाकारपरामर्शग्राह्यं सामान्यं यत्र न तत्र विशेषशब्दप्रयोगः स मिथ्या, निनिमित्तवान् । शशविषाणकल्पत्वादिति। ईषदपरिसमाप्ते शशविषाणे शशविषाणकल्पे, तयोभविः तत्त्वं तस्मात् । सर्वत्रेति चेष्टादावपीत्यर्थः । यद्यतित्यादिना शशविषाणकल्पत्वाभावेऽपि दूषणान्तरमभिदधाति । संग्रहश्लोकः एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिनत्वादेवंभूतोऽभिमन्यते ॥ सदनि । प्रवृत्तिनिमित्तकालादन्यदापि । तदिति वस्तु ॥ वैयाकरणादय इति । आदिशब्दादाभिधानकोशकर्तारो गृह्यन्ते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110