Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ८० टीका-टिप्पनसहितः > तदिदमर्थस्वरूपनिरूपणनिपुणानां नयानां मतमुपवर्णितम् अधुना शब्दविचारचतुराणामुपवर्ण्यते--- तत्र त्रयाणामपि शब्दादीनामिदं साधारणाकृतम्, यदुत शब्द एव परमार्थो नार्थः, तस्य तदव्यतिरिक्तत्वात् । पार्थक्येन वस्तुत्वसिद्धेः कथमव्यतिरेक इति चेत् प्रमाणादिति ब्रूमः । तथा हि- न व्यतिरिक्तोऽर्थः शब्दात्, तत्प्रतीता तस्य प्रतीयमानत्वात्, इह यत्प्रतीतौ यत्प्रतीयते तत् ततोऽव्यतिरिक्तं भवति, तद्यथा शब्दे प्रतीयमाने तस्यैव स्वरूपम्, प्रतीयते च शब्दे प्रतीयमानेऽर्थः, अतोऽसौ ततोऽव्यतिरिक्त इति । अथ अगृहीतसंकेतस्य घटशब्दश्रवणेऽपि घटप्रतीतेरभावाद् व्यतिरिक्त इति चेत्, एवं तर्हि विषस्य मारणात्मकत्वं तदज्ञस्य न प्रतिभातीति तत्ततो व्यतिरिक्तमापद्येत, न चैतदस्ति, तद्व्यतिरेकाविशेषेण गुडखण्डवद्विषस्याप्यमारकत्वापत्तेः, संबन्धस्य च व्यतिरिक्तेन सह प्रागेवापास्तत्वात् तन्न अबुधप्रमातृदोषेण वस्तुनोऽन्यथात्वम्, अन्यथान्धो रूपं नेक्षते इति तदभावोऽपि प्रतिपत्तव्य इति । ये निरभिधानः वर्तन्तेऽर्थास्तेषां शब्दात्पार्थक्येन वस्तुत्वसिद्धिरिति चेन्न, निरभिधानार्थाभावात्, केवलं केचित् विशेषशब्दैः संकीर्त्यते केचित् सामान्यध्वनिभिरित्येतावान् विशेषः स्यात् । यदि वा सकलार्थवाचका विशेषध्वनयो न सन्तीति नास्त्यत्र प्रमाणम् । ततश्च सर्वेऽर्था विद्यमानस्ववाचकाः, अर्थत्वात्, घटार्थवदिति प्रमाणात् ; सर्वेषां स्ववाचकत्वेन पूर्वोक्तयुक्तेः शब्दादपार्थक्यसिद्धिः । तस्मान्न परमार्थतोऽर्थः शब्दादव्यतिरिक्तोऽस्ति, उपचारत: पुनलौकिकैर पर्यालोचित परमार्थे - र्व्यवह्रियते । असावप्यौपचारिकः शब्दात्मको वार्थः प्रतिक्षणभङ्गुरः स्वीकर्तव्यः, वर्णानां क्षणध्वंसिताप्रतीतेः, ऋजुसूत्रप्रतिपादितयुक्तिकलापाच्च ॥ > सांप्रतमेतेषामेव प्रत्येकमभिप्रायः कथ्यते - तत्र शब्दो रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथा इन्द्रशक्रपुरन्दरादयः, तेषां सर्वेषामप्येकमर्थमभिप्रैति किल प्रतीतिवशात् यथा शब्दाग्य तिरेकोऽर्थस्य प्रतिपाद्यते तथैव तस्यैकस्वं वा नैकत्वं वा प्रतिपादनीयम्, न चेन्द्रशक्रपुरन्दरादयः पर्यायशब्दा विभिन्नर्थवाचितया कदाचन प्रतीयन्ते, तेभ्यः सर्वदैवैकाकार परामर्शोत्पत्तेः, अस्खलद्वृत्तितया तथैव व्यवहारदर्शनात् । तस्मादेक एव पर्यायशब्दानामर्थ इति शब्दः । शब्द्यते आहूयतेऽनेनाभिप्रायेणार्थ इति निरुक्तादेकार्थप्रतिपादकताभिप्रायेणैव पर्यायध्वनीनां प्रयोगादिति ॥ Acharya Shri Kailassagarsuri Gyanmandir एक एवेत्यादि । यथा शब्दनयः पर्यायशब्दानामेकमर्थममित्रैति तथा तटस्तटी तटमिति विरुद्धलिङ्गलक्षणधर्माभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि बिरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्मयोगो युक्तः, एवं संख्याकालकारक पुरुषादिमेदादपि भेदोsवगन्तव्यः । संग्रहश्लोकः - विरोधे लिङ्गसंख्यादिमेदाद् मिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110