Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
रीका-रिवनसहितः कालव्याप्तिग्रहणे किंचन प्रवर्तते, सर्वप्रमाणानां वर्तमानप्रकाशल्यत्वात् । तथा हिप्रत्यक्षं तावद्रूपालोकमनस्कारचक्षुर्लक्षणकारणचतुष्टयालब्धसत्ताकं वर्तमानक्षणे एवं प्रकाशते, अतीतवस्यरक्षणयारेसंनिहितस्वात् , ततश्च तत् तत्कालसंबदमेव वस्तुमो रूपं साक्षात्कर्तुं क्षमते न पूर्वमपरं वा, असंनिधानादेव । यदि पुनर्विनष्टमपि पूर्वक्षणवर्तिरूपमाकलयेत् , तदा विनष्टत्वाविशेषानिरवधिः क्षणपरंपरा तन्त्र प्रतीयेत, तथा च सति संकलिकया अनादिजन्मपरंपराग्राहि प्रत्यक्षमनुषज्येत, एवमनागतक्षणग्रहणेऽपि योज्यम् , अनिष्टं चेतत् , तस्मात् तद्वार्तमानिकक्षणग्रहणदक्षमेवेत्यभ्युपगन्तव्यम् । ननु च यदि क्षणभङ्गुरतामर्थात्मनामध्यक्षमेव लोकयति, तदा नीलतेव प्रतिभासमाना सा विप्रतिपत्तिगोचरं न यायादिति तद्विषयो लौकिकानां व्यवहारः प्रवर्तत, न चैतदस्ति, स्थिरताद्वारेण व्यवहारप्रवृत्तेरिति । अन्न प्रतिविधी. यते- साक्षात्कुर्वाणा अपि क्षणविनश्वरतां सदृशापरापरोत्पत्तिविप्रलब्धबुद्धयो मन्दा नाध्यवस्यन्ति. अनादिकालप्ररूढवासनाप्रबोधसमुपजनितमिथ्याविकल्पसामर्थ्याच विपयस्तस्थिरताव्यवहारं प्रवर्तपन्ति, तन्नायमध्यक्षस्यापराधः, अपि तु प्रमातणा
देशकालव्याप्तीति । एकस्यानेकावयवव्याप्तिर्देशव्याप्तिः, एतावता स्थूरत्वमुक्तम् , एकस्यानेकक्षणव्याप्तिः कालव्याप्तिः, अनेन तु स्थिरत्वमभिहितम् । तत्र कालव्याप्तेरनन्तरत्वेन संनिहितत्वाद् यथाकथंचिदर्थप्रकाशस्य वा विवक्षितत्वात् । सर्वप्रमाणानामिस्यादिना तावत् कालव्याप्तिं दूषयितुमारभते – वर्तमानप्रकाशरूपत्वादिति । वर्तमानः पूर्वापरसमयविविक्तः, प्रकाशः परिच्छेदो रूपं येषां प्रमाणानां तेषां प्रमाणानां तेषां मावस्तत्त्वं तस्मात् । इदमत्र हृदयम् - परिच्छेदकं हि प्रमाणमेकक्षणवत्येव, ततस्तेन परिच्छिद्यमानोऽर्थोऽपि स्वैकक्षणवत्येव परिच्छेत्तव्यः, न पूर्वापरक्षणवर्ती, तस्य परिच्छेदकप्रमाणकालेऽभा. वात् , तत्काले च परिच्छेदकप्रमाणस्यासत्त्वादिति ।
तदिति प्रत्यक्षम् । तत्कालसंबद्धं वर्तमानकालसंगतम् । वर्तमानकालपरिगतवस्तुग्राहित्वं चाध्यक्षस्य वैभाषिकाभिप्रायेण, क्षणक्षयाद्यवस्थितत्वलक्षणत्वाद्वस्तुनः, अन्यथा चक्षुरिन्द्रियसंनिकृष्टादर्थादुत्पद्यमानस्य द्वितीयक्षणभाविनो ज्ञानस्य न प्राक्क्षणवर्तिरूपग्राहकत्वेन वर्तमानवस्तुग्राहकत्वं स्यात् । सौत्रान्तिकाभिप्रायेण वस्तुजन्यज्ञानगतप्राशाकारलक्षणमेव वस्तुनो रूपं साक्षात्कर्तुं क्षमते इति व्याख्या । वस्त्वाहितमात्मगतमाकारं प्रत्यक्षं परिच्छिनति' - इति हि सौत्रान्तिकानां सिद्धान्तः । यदाहुस्तद्वादिनः
अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते
प्रत्यक्षो न हि बाद्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिहिता साकारवद्धिः परा
__ मन्यन्ते नत मध्यमाः कृतधियः स्वच्छां परं संविदम् ॥ इति ॥ तत्र सौत्रान्तिकयोगाचारशब्दौ पूर्वमेव दत्ताौँ । वैमाविकमध्यमभदौ त्वेवं
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110