Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म्यायावतारः मूलकत्वाच्छेषप्रमाणवर्गस्य, तस्मात् सामान्य मेव परमाथों न विशेषा इति संग्रहः ॥ सांप्रतं व्यवहारमतमुच्यते- तत्र व्यवहरणं ग्यवह्रियते वानेन लौकिकरभिप्रायेणेति व्यवहारः । अयं तु मन्यते- यथालोकग्राहमेव वस्त्वस्तु, किमनयादृष्टाव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टिकया? यदेव च लोकव्यवहारपथमवतरति तस्यानुग्राहकं प्रमाणमुपलभ्यते, नेतरस्य, न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमाणभूमिः, तथानुभवाभावात् , सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च। नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचरः, तथा प्रवृत्तेरभावात् । तस्मादिदमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूरतामाबिभ्राणमुदकाहरणाद्यर्थक्रियानिर्वर्तनक्षमं घटादिकं च वस्तुरूपं पारमार्थिकमस्तु, पूर्वोत्तरकालभावितत्पर्याय पर्यालोचना पुनरज्यायसी, तत्र प्रमाणप्रसराभावात् , प्रमाणमन्तरेण च विचारस्य कमशक्यत्वात् , अवस्तुत्वाच्च तेषां किं तद्गोचरपर्यालोचनेन ? तथा हि- पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कंचन लोकव्यवहारमुपरचयन्ति, तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् इति व्यवहारः ॥ सांप्रतं ऋजसूत्राभिप्रायः कथ्यते-तत्र ऋजुप्रगुणमटिलमतीतानागतवक्रपरित्यागाद्वर्तमानक्षणविवर्ति वस्तुनो रूपं सूत्रयति निष्टङ्कितं दर्शयतीति ऋजुसूत्रः । तथा हि- अस्याभिप्रायः। अतीतस्य विनष्टत्वात् अनागतस्यालब्धात्मलाभवात् खरविषाणादिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्यानार्थक्रियानिर्वर्तनक्षमत्वम् , अर्थक्रियाक्षमं च वस्तु, तदभावान्न तयोर्वस्तुत्वमिति, वर्तमानक्षणालिङ्गितं च पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियते इति तदेव पारमार्थिकम् । तदपि च निरंशमभ्युपगन्तव्यम् , अंशव्याप्तेयुक्तिरिक्तवाद्, एकस्यानेकस्वभावतामन्तरेणानेकस्वावयव्यापनायोगात् । अनेकस्वभावतैवास्त्विति चन्न विरोधाघ्रातत्वात् । तथा हि-यद्येकः स्वभावः कथमनकः अनेकश्चेत् कथमेकः? एका कयोः परस्परपरिहारेणावस्थानात् , तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिनिचयरूपतामापना निखिलकार्येषु व्यापारभाज इति ते एवं स्वलक्षणम् , न स्थरतां धारयत्पारमार्थिकमिति । किं च प्रमाणतोऽर्थव्यवस्था, न च प्रमाणं देश यथालोकग्राहमिति । ग्राहयतीति ग्राहोऽभिप्रायः, पचाद्यच , लोकाभिप्रायविशेषः, तस्यानतिक्रमेणेति । संग्रहश्लोकः व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यवहारयति देहिनः ।। तामिति सत्तारूपताम् । शेषं सुगमम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110