Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
टीका-टिप्पनसहितः
केवलस्य विशेषस्य सामान्यस्य वाभ्युपगमः कर्तुं युक्तः, इयोरपि स्वग्राहिज्ञाने प्रतिभासमानतया विशेषाभावात् । तस्मादेतौ द्वावपीतरेतरविशकलितावनीकरणाविति नैगमः ॥
___ अधुना संग्रहाभिप्रायो वर्ण्यते । तत्र संगृह्णाति अशेषविशेषतिरोधान द्वारेण सामान्यरूपतया जगदादत्ते इति संग्रहः । अयं हि मन्यते-भावलक्षणसामान्याद् व्यतिरिच्यमानमूर्तयो वा विशेषाः परिकल्प्यरेन् , अन्यतिरिच्यमानमूर्तयो वा, गत्यन्तराभावात् । तत्र यद्याद्यः पक्षः, तदा निःस्वभावतां ते स्वीकुर्युः, भावग्यतिरेकित्वात्, गगनकुसुमादिवत् । अथ द्वितीयः कल्पः, तर्हि भावमात्रमापद्यन्ते । तथा हि-भावमात्रं विशेषाः। तदव्यतिरिक्तत्वाद् , इह यद्यतोऽव्यतिरिक्तं तत्तदेव भवति, तद्यथा भावस्यैव स्वरूपम् , अव्यतिरेकिणश्च विशेषाः, अतस्तद्रूपा एव । ननु च यदि भावमात्रमेव तत्त्वं तदा तस्य सर्वत्राविशेषाद् य एते प्रतिप्राणि प्रसिद्धाः स्तम्भेभकुम्भाम्भोरुहादिविशिष्टवस्तुसाध्या व्यवहारिणस्ते सर्वेऽपि प्रलयमापोरन् , अतो विशेषा अपि विविक्तव्यवहारहेतवोऽभ्युपगन्तव्याः । मैतदस्ति, व्यवहारस्याप्यनाद्यविद्याबलप्रवर्तितत्वात् , तेन पारमार्थिकप्रमाणप्रतिष्ठिततत्वप्रतिबन्धाभावात् । किं च विशेषाग्रहो विशेषेण त्याज्यः, विशेषग्यवस्थापकप्रमाणाभावात् । तथा हि-भेदरूपा विशेषाः, न च किंचिप्रमाणं भेदमवगाहते, प्रत्यक्षं हि तावद्भावसंपादितसत्ताकं तमेव साक्षात्कर्तुं युक्तं नाभावम् , तस्य सकलशक्तिविरहरूपतया तदुत्पादने व्यापाराभावात् ,अनुत्पादकस्य च साक्षात्करणे सर्वसाक्षात्करणप्रसङ्गात्, तथा च विशेषाभावात् सर्वो द्रष्टा सर्वदर्शी स्यात् , अनिष्टं चैतद् भवताम् , तस्माद् भावग्राहकमेव तदेष्टव्यम् । स च भावः सर्वत्राविशिष्ट इति तथैव तेन प्रायः, तदु. त्तरकालभावी पुनर्विकल्पो 'घटोऽयं पटादिर्न भवति' इत्येवमाकारो व्यवहारं रचयन्
अविद्यामूलत्वान्न प्रमाणम् , तम प्रत्यक्षाद्विशेषावगतिः । नाप्यनुमानादेः, प्रत्यक्ष. मान्यग्राहिबोधानिष्टौ । अत्र नैगमाभिप्रायसंग्रहश्लोक:
अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥
सामान्यरूपतया जगदादत्ते इति । सर्वमेकम् , सदविशेषादिति हि तत्सिद्धान्तः। प्रत्यक्षं हीति । यदाहुस्तद्वादिनः
आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः ।
नकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥ संग्रहश्लोकः
सदूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ।
For Private And Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110