Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतार: सांप्रतं समभिरूढमतमुपवर्ण्यते-तत्र सम् एकीभावेनाभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ योऽभिप्रायः स समभिरूढः । अयं हि पयाय. शब्दानां प्रतिविभकमेवार्थमभिमन्यते, तद्यथा - इन्दनादिन्द्रः, परमैश्चर्यमिन्द्रशब्दवाच्यं परमार्थतः, तद्वत्यथें पुनरुपचारतो प्रवर्तते, न वा कश्चित् तद्वान् , सर्वशब्दानां परस्परप्रविभक्तार्थप्रतिपादकतया आश्रयाश्रयिभावेन प्रवृत्यसिद्धेः । एवं शकनाच्छकः, पूर्दारणात् पुरंदर इत्यादि भिन्नार्थत्वं सर्वशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा विभिन्नार्थाः, प्रतिविभक्तव्युत्पत्तिनिमित्तकत्वात् , इह ये ये प्रतिविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः, यथा इन्द्रधटपुरुषादिशब्दाः, विभिन्न व्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिमार्था इति । यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकस्वं प्रतिपाद्यते तदयुक्तम् , अतिप्रसङ्गात् । तथा हि-यदि युक्तिरिक्ता प्रतीतिरेव शरणीक्रियते, तदा तदा मन्दमन्दप्रकाशे दवीयसि देशे संनि. विष्टशरीरविभिन्ना अपि निम्बकदम्बाश्वत्थकपित्यादय एकतर्वाकारतामाबिभ्राणाः प्रतीयन्ते इति एकतयैवाभ्यपगन्सम्याः । न चैतदस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनी. कप्रत्ययोपनिपातबाधितस्वेन पूर्वप्रतीतेः विविक्तानामेव तेषामभ्युपगमात् , तौका. र्थवाचिनो वनयः सन्ति, रूढिः पुनरविचारिततदानामिति समभिरूडः ॥ सांप्रतमेवभूताभिप्रायः प्रतिपाद्यते-तत्रैवंशब्दः प्रकारवचनः, ततश्चैवं यथा म्युत्पादितः तं प्रकारं भूतः प्राप्तो यः शब्दः स एवंभूतः, तत्समर्थनप्रधानाभि. प्रायोऽप्येवंभूतः, तद्विषयत्वात् , विषयशब्देन च विषयिणोऽभिधानात् । अयं हि यस्मिार्थे शब्दो व्युत्पाद्यते स म्युत्पत्तिनिमित्तमर्थो यदैव विवर्तते तदैव तं शब्द एकीभावेनेति प्रज्बेकम् । अयमभिप्रायः-यथा विरुद्धलिङ्गाद् भियते वस्तु, तथा संसाभेदादपि; ततो यावन्तोऽर्थस्य स्वाभिधायका ध्वनयस्तावन्तोऽर्थभेदाः, प्रत्यर्थ शब्द निवासादिति । तद्वतीति । परमैश्वर्ययुने उपचारस्य च निमित्तम्, तत्रैश्वर्यस्यावस्थानम्, न वा कश्चित् तद्वान् शन्दानामभिधेय इति शेषः । दवीयसीति दूरतरे । भविचारिततदनामिति । तेषां शन्दानामर्थस्तदर्थः, न विचारितस्तदर्थो यस्ते तथा तेषाम् । संग्रहलोका तपाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ते सममिरूढस्तु संझामेदेन मित्रताम् ॥ तथाविधस्येति विरुद्ध लिसादियोगभेदिनः ॥ तद्विषयस्वादिति। स एवंभूतः शन्दो विषयो यस्यामिप्रायस्य तद्वावस्तस्वं तस्मात् । विषयिण इति । अभिप्रायस्य । यदा यक्रियाविशिष्टं शन्देनोच्यते स च क्रिया कुर्वद् वस्तु एवंभूत उच्यते तत्प्रतिपादनपरो नयोऽप्येवंभूतः। तथा एवं यः शन्देनोच्यते धादिकः प्रकारः तमेवंभूतः प्राप्तोऽभिप्रायः, तविशिष्टस्यैव वस्तुनोऽभ्युपगमनात् । अस्मिन पक्षे निरुपचारोऽप्येवंभूतमनिरभिधीयत इति । स्वशावत्यपि पावरायाकारे घर. माया-११ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110