Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कानचिनसाहित पदार्थः स एष, केवलं वाक्याभेदः । तथा हि-हौवं घटना । नयस्य विषय एक. देशविशिष्टोऽर्थो मतो नीतिविदामिति । ननु च यदि नयस्य प्रमाणान्तःपातित्वेऽपि पृथग गोचरः प्रतिपाद्यते, ततः प्रमाणवदेतद्विषया लक्षणादिविप्रतिपत्तिरपि निरा. कर्तग्या। सत्यम् , किं तु न परेषां नयव्यवहारः प्रसिद्धः, अतो धर्मिणोऽभावात् तद्गोचरा विप्रतिपत्तिनास्त्येव । न च ते तेन तत्वं प्रतिपादनीयाः, तत्वप्रतिपादने प्रमाणस्यैव व्यापारात् , नयस्य पुनरेकदेशनिष्ठत्वेन तत्प्रतिपादनसामर्थ्य विकलरवात् , भत एवाचार्यस्य न तल्लक्षणादिस्वरूपकथनेऽपि महानादरः । गोचरं पुनर्हेयपक्षे काका प्रक्षिपन् साक्षात् प्रतिपादयति- मा भूत् स्वदर्शनान्तःपातिनां मन्दबुद्धीनां प्रमाणप्रतिपमेऽप्यनेकान्तात्मके वस्तुन्येकदेशसमर्थनाभिनिवेशलक्षणः कदाग्रह इति । भथवा स्वदर्शनान्तःपातिनः प्रति अनेनैव गोचरकथनेनोपलक्षणत्वाल्लक्षणादीग्यपि लक्षयति । तत्र प्रमाणप्रतिपन्नाथैकदेशपरामर्शो नय इति लक्षणम् , सर्वनय. विशेषानुयायित्वात्पररूपव्यावर्तनक्षमत्वाचास्य । संख्यया पुनरनन्ता इति, भनन्तधर्मत्वाद्वस्तुनः, तदेकदेशधर्मपर्यायावसिताभिप्रायाणां च नयत्वात् , तथापि चिरंतनाचार्यैः सर्वसंग्राहिसत्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा- नगमसंग्रहन्यवहारर्जुसूत्रशब्दसमभिरूलैवंभूता नयाः इति । अतोऽस्मा. भिरपि ते एव वण्यन्ते। कथमेते सर्वाभिप्रायसंग्राहकाः इति चेत् , उच्यते । अभिप्रायस्तावदर्थद्वारेण शब्दद्वारेण वा प्रवर्तेत, गत्यन्तराभावात् , अर्थश्च सामान्यरूपो विशेषरूपो वा, शब्दोऽपि रूढितो व्यत्पत्तितश्च, व्युत्पत्तिरपि सामान्यनिमित्तप्रयता तत्कालभाविनिमित्तप्रयता वा स्यात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्याये नयनुष्टोऽन्तर्भवन्ति, तत्रापि ये परस्परविशकलितो सामान्य विशेषाावच्छन्ति तत्समुदायरूपो नेगमः । ये पुनः केवलं सामान्यं वान्छन्ति तत्समूहसंपाद्यः संग्रहः । ये पुनरनपक्षितशास्त्रीयसामान्यविशेष लोकव्यवहारमव. तरन्तं घटादिकं पदार्थमभिप्रेयन्ति तन्निचयजन्यो व्यवहारः । ये सौगतास्तु क्षण. क्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते, तत्संघातघटित ऋजुसूत्र इति । तथा ये मीमांसकाः रूढितः शब्दानां प्रवृत्तिं वान्छन्ति तन्निवहसाध्यः शब्द इति । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्ति वाञ्छन्ति नान्यथा, तवारजन्यः समभिरूढ इति ।
इत्यत्र एवशब्दो द्रष्टव्यः । केवलं वाक्यार्थभेद इति । तथा हि- पूर्वस्मिन् वाक्यार्थ नयस्य कर्तृभूतस्यैकदेशविशिष्टोऽर्थो विषयो मतः, अस्मिंस्तु वाक्याथें नयस्य संबन्धी विषयो नीतिविदां कर्तृभूतानामेवंविधोऽभिप्रेत इति स्पष्टो वाक्यार्थभेदः ।
तस्समुदायरूपो नैगम इति । पूर्व हि ये परस्परविशकलिती सामान्यविशषाविच्छन्ति इति बहुवचनेन निर्देशे नैगमे इत्येकवचनान्तत्वात् नात्र सुश्लिष्टो वाक्यार्थः स्यादिति तत्समुदायरूप इत्युक्तम् । एवं तत्समूहादिशन्देष्वपि भावनीयम् ।
For Private And Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110