Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ टीका-टिप्पनसहितः काकारनिर्णयोऽमावपि स्वसंवेदनापेक्षयाद्वयरूप इति भवदभिप्रायः, यथा चानवस्थाभीरुतया सर्व ज्ञानं स्वप्रकाशमभ्युपेतम् , तथा सर्वो निश्चयः स्वनिश्चायकोऽ. भ्युपगन्तव्यः, अन्यथा तपाप्यनवस्थादोपोऽनुषज्येत, निश्चयाश्च सर्वथा स्वरूपं निश्चिनुयुः, नैकदेशेन, यतो निश्वयर्यन्न निश्चीयते रूपं तत्तेषां विषयः कथमिति स्वयमेव स्ववधाय प्रलपितम् , तथा चाद्वयस्य क्षणक्षयिरूपस्य तैर्ग्रहणे विपरीतारोपाभावादादित एव अनुत्थानं संसारस्येति युक्तिरिक्त एवामुक्ताभिमानः स्यात्। न चैवम् , भवभावस्य प्रतिप्राणिप्रसिद्धत्वात् । तन्नायमितरेतराविनिर्लुटितद्रव्यपर्यायप्रकाशो भ्रान्तः, तद्विपरीतार्थीपस्थापकप्रमाणान्तराभावादिति स्थितम् । यदा तु शून्यवादी मिरालम्बनाः सर्व प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति पराभिप्रायप्रवृत्तानुमानबलाद् भ्रान्ततामस्य कथयेत् , तदा तं प्रति सालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् जाग्रद्दशाप्रत्ययवदिति विपरीतानुमानमुपढौकनीयम्। स यदि दृष्टान्तस्य साध्यविकलतामद्भावयेत् , तदा तदृष्टान्तेऽपि सा दर्शनीया। यदि पुनरसौ स्वप्नप्रत्ययस्य निरालम्बनत्वं भवद्भिरभिप्रेतमिति विलपन्नायितुं न दद्यात् , तदा स विकल्पतः पर्यनुयोज्यः- अस्मदभ्युपगमः प्रमाणं भवतोऽप्रमाणं वा; प्रमाणं चेत् , यथा तबलाद दृष्टान्तसमर्थनं तथा जाग्रत्प्रत्ययगोचरार्थसमर्थनमपि किं न कुरुषे, कोऽयमर्धजरतीयन्यायः । अथाप्रमाणम् , एवं सति स्वमप्रत्ययनिरालम्बनतासाधकं प्रमाणान्तरं मृगणीयम् , किमनेन कुशकाशावलम्बनेन। तत्रापि प्रमाणान्तरे विकल्पयुगलममलमवतरति, तत् किं निरालम्बनम् , सालम्बनं वा; निरालम्बनं चेत्, मान्यप्रत्ययस्य निरालम्बनतां गदितुं पटिष्ठं निर्गोचरत्वात् । अथ सालम्बनम् , हन्त हतोऽसि, निरालम्बनाः सर्वे प्रत्यया इति प्रतिज्ञातक्षतेः, अनेनैव व्यभिचारादिति शठः प्रतिशठाचरणेन निलोठनीयः । तन्नास्यानकान्तिकत्वम् । विरुद्धताशङ्का पुनः ईरापास्तप्रसरैव, प्रमाणप्रकाशितेऽर्थे सर्ववादिनां तथाभ्युपगमाविगानादिति । अनेन संशयविरोधानवस्थावैयधिकरण्यासंभवादिदुपणानि निर्मलकमिथ्याविकल्पोत्थापिता निर्णयः स्वसंवेदनापेक्षया भवदभिप्रायेणाद्वयरूपः, अनवस्थाभयाच स्वयं निर्णयेन स्वरूपं निर्णेतव्यम् तदपि सर्वथा, अन्यथा सितपीतादिनिर्णयेन यत् सितपीतादिनिर्णयरूपं स्वरूपं न निर्णीयते, अद्वयात्मकमपि तदात्मना तत् स्वरूपं तस्य निर्णयस्य विषयः कथम् ? नैव स्यादित्यर्थः । एवं चाद्वये गृहीते अनेकाकारारोपाभावादनुत्थानं संसारस्येति । पराभिप्रायेति। परोऽभ्युपगतानुमानो जैनादिः । अनेनेति । प्रमाणनिर्णीतेऽविसंवादेन । संशयविरोधानवस्थावैयधिकरण्यासंभवादिति। नित्यानित्याद्यनकधर्मकत्व वस्तुनोऽभ्युपगम्यमाने नित्यवस्तनोऽभ्युपगम्यमाने नित्यमिदं वस्त्वनित्यं चेत्येकस्यावधारणद्वारेण निणींतेरभावात् संशयः । तथा यदेव वस्तु नित्यं तदेवानित्यमिति विरोधः, नित्यानित्ययोः परस्परपरिहारेणावस्थानात् । यदि पुनर्नित्यमनित्यात्मना, अनित्यं नित्यरूपतया व्यवस्थितं स्यात; तदा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110