Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का-विषमसहितः
पाक्षितं सकलब्यावृत्तवलक्षणग्रहणप्रवणमपि कतिचिदंशविषयं विकल्पमुत्थापपति, तथार्थ एवेन्द्रियालोकादिसंनिकृष्टतया कतिचिमिजांशविषयं साक्षाद् विशदविकरूपं मनयेदिति किमजागलस्तनकल्पनिर्विकल्पकरुपनया? सावन्तोऽशा बहिरर्थे विरुध्यन्ते इति चेत्, पाटवापाटवादयो दर्शनेऽप्येकस्मिन् न विरुण्यन्ते इति किं राज्ञामाज्ञा ? तस्मान क्षणक्षयिपरमाणुलक्षणस्वलक्षणलक्षकं कचित् कदाचिद्दर्शनं लक्षयन्ति, भव. तोऽपि केवलं स्वदर्शनानुरक्तान्तःकरणतया न तदसत्ता प्रतिपद्यन्ते । स्वांशव्यापिनं कालान्तरानुयायिनमेकं बाहिरन्तश्चार्थ बोधं च प्रकाशयन् प्रथमानो निर्णयः न पुननिमूलकैः कुयुक्तिविकल्पैर्वाध्यते इति न भ्रान्तः । किं चास्य भ्रान्ततां कथयन् सर्व. प्रमाणप्रमेयव्यवस्थामुन्मूलयति । तथा हि-यत्सत्वबोधरूपत्वसुखस्वादिषु प्रमाण तदेव क्षणक्षयित्वस्वर्गप्रापणशक्तियुक्तत्वादिषु अप्रमाणम्, तथा यद्वस्तु नीलचतुरस्रोर्वतादिरूपतया प्रमेयं तदेव मध्यभागक्षणविवर्तादिनाप्रमेयम् , तथा यद् बहिरापेक्षया सविकल्पकं स्वमादिदर्शनं वा भ्रान्तं तदेव स्वरूपापेक्षयाभ्रान्तम् , तथा यनिशीथिनीनाथद्वयादिकं द्वित्वेऽलीकं तदपि धवलतानियतदेशचारितादावनलीकमिति निर्णयः । यदि तु विरोधाद् बिभ्यद्भिर्भवद्भिरयमपह्वयते, किमपरमैकान्तिकं प्रमाणं प्रमेयं चोररीकृत्य स्वाकूतं प्रतिष्ठापयेयुरिति सकौतुकं नश्चेतः । अथ ज्ञानवादी अद्वैतप्रकाशमलक्षितमभ्युपेत्य तेन बाहविद्यं दधानो बोधो बाध्यमानत्वात् भ्रान्त इत्यभिदध्यात् , तदयुक्तम् , दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गात् , अलक्षितनिर्वि. कल्पदर्शनस्य च प्रागेव प्रतिक्षिप्तत्वात् । अथ युक्तिबोधस्य वैविध्यं बाधेत, तथा हि
इति परिहृतवान् । कतिचिदंशविषयमिति । नीलादिविषयम् , न क्षणिकादिविषयम् । तावन्तोऽशा इति । नीलत्वाक्षणिकत्वचतुरस्रत्वोर्धत्वादयो विरुध्यन्ते इति निरंशैकस्वभावत्वाद् वस्तुनः । पाटवापाटवादय इत्यादि । समाधानार्थस्तु तर्हि निर्विकल्पदर्शनस्यापि नीलादिविकल्पं जनयतो नीलादिविकल्पजनने पाटवम् , क्षणिकत्वादिविकल्पं चाजनयतस्तत्रापाटवम् । आदिशब्दात्तु बोधरूपत्वनिर्विकल्पत्वाभ्रान्तत्वादयो धर्मा गृह्यन्ते । ते च पाटवादयः परस्परविरुद्धाः, नैकत्रदर्शने संभवन्ति इति दर्शनस्यापि न विकल्पजनकत्वमित्यभिप्रायः। यदिति संवेदनम् । सत्वबोधरूपत्वसुखत्वादिप प्रमाणमिति। यथासंभवमन्तर्बहिर्गतानां सत्त्वादीनां तस्यैव संवेदनस्य विकल्पोत्थापनद्वारेण व्यवस्थापकत्वात् , यद्यस्य व्यवस्थापने हेतुस्तत्तत्र प्रमाण मिति हि प्रमाणस्थितिः । आदिशब्दान्नीलत्वादिग्रहः । अप्रमाणमिति । क्षणक्षयित्वादिविषये विकल्पोत्थापनाभावात् । तथा च तत्सिद्धान्तः- यत्रत्र जनयेदेनां तत्रैवास्य प्रमाणता इति ।
स्वप्नादीति । आदिशब्दात् जाग्रद्देशभाविनो मरीचिकादौ जलादिज्ञानस्य परिग्रहः । अयमिति अनेकान्तप्रकाशः । कथमदृष्टेत्यादि । तस्याद्वयसंवेदनस्य कार्य तत्कार्यम् ,
For Private And Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110