Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
नि प्रतिभासमुद्रनिपातनिर्दलितमस्तकत्वान्न जीवितुमुत्सहन्ते इति । तस्मादसिद्वतादिदोषादिना कृतोऽयं तथाप्रतिभासलक्षणो हेतुरनेकान्तगोचरतां प्रमाणस्य परानभ्युपगमयति, इत्यलं विस्तरेण । तस्मात्तस्यैव तत्र प्रतिभासनात् सर्वसंविदामनेकान्तात्मकं वस्तु गोचर इति स्थितम् ॥
अयं च यथावस्थितप्रमाणव्यापारपर्यालोचकप्रमात्रभिप्रायेण प्रमाणगोचरो दर्शितः । नयस्तर्हि किंभूतं मन्यते इति वचनावकाशे सत्याह -- 'एक' इत्यादि । अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयसीति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । तस्य विषयो गोचरोऽभिमतः भभिप्रेतैकदेशेनानित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो व्यवच्छिन्न इत्यर्थः। अर्थः प्रमेयरूपः, प्रमाणमेवंविधमेवार्थं गृह्णाति- इति स्वाकृतेन तेन व्यवस्थापनादिति। अथ चाप्रमाणविषयां लक्षणसंख्यागोचरफलरूपां चतुर्विधां विप्रतिपत्ति निराकृत्य अत्रैव नयगोचरं निरूपयन्नाह- एकेत्यादि । ननु चादिवाक्यतः प्रमाणव्युत्पादनमानं प्रतिज्ञातं तत् किमयमप्रस्तुतोऽत्र नयगोचरः प्रतिपाद्यते इति । सत्यम् , एवं मन्यते- न नयः प्रमाणादत्यन्तं दूरयायी, किं तर्हि तदंशभूत एव , नयसमुदायसंपाद्यत्वात् प्रमाणस्य, अतस्तद्वयत्पादनप्रतिज्ञातेऽसावपि तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायाद् गृहीत एव, तन्नायमप्रस्तुत इति । अत्रापि
नित्यानित्यत्वयोरविशेषात् प्रतिनियतव्यवहारोच्छेदः । तथा येनांशेन नित्यं तनांशेन किं नित्यमेव, आहोस्वित् तेनाप्यंशेन नित्यमनित्यं वेति । तत्राद्यपक्षे अनेकान्तक्षतिः । द्वितीयपक्षे पुनरपि येनांशेन नित्यं तेनांशेन किं नित्यमेव, आहोस्वित् तेनापि नित्यमनित्यं वेति अनवस्था । एवमनित्यपक्षेऽपि सर्वमेतद् भावनीयम् । तथा भिन्नप्रवृत्तिनिमित्तयोः शब्दयो. रेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । यथा नीलोत्पलमित्यत्र एकस्मिन् उत्पलद्रव्ये नीलगुणं निमित्तीकृत्य नीलशब्दः प्रवर्तते, उत्पलत्वजाति चाश्रित्योत्पलशब्दः, ततो भवति नीलोत्पलशब्दयोर्भिन्नप्रवृत्तिनिमित्तयोरेकस्मिन्नर्थे वृत्तत्वात् सामानाधिकरण्यम् । अत्र तु नित्यत्वानित्यत्वादिधर्माणां द्रव्यादभेदेऽभ्युपगम्यमाने यदेव नीलधर्मात्मकं वस्तु नीलशब्दप्रवृत्तिनिमित्तं तदेव सदृशपरिणामलक्षणोत्पलत्वजात्यात्मकत्वमुत्पलशब्दस्यापि प्रवृत्तिनिमि. तम् । तन्नानेकान्ताभ्युपगमेऽभिन्नप्रवृत्तिनिमित्तत्वात् सामानाधिकरण्यलक्षणं घटते, तद. भावाच्च वैयधिकरण्यमिति । तथासंभवोऽपि, संशयविरोधाधुक्तयुक्तेः, एकस्य वस्तुनो नित्या. नित्याधनेकधर्मालिङ्गितत्वाभावात् , अतो न नित्यमनित्यं च तदेव वस्तु भवति इति । आदिशब्दात् प्रत्यक्षादिवाधापरिग्रहः ।। ।
प्रमाणप्रवृत्रुत्तरकालभावीति । प्रत्यक्षादिप्रमाणेन यथावस्थितवस्तुस्वरूपग्रहणादनन्तरमिदं नित्यमिदमनित्यमित्यादिस्वाशयेन वस्त्वंशपरामर्श इत्यर्थः। एवंविधमेवे. स्यादि । नयदुर्नययोः किंचित् साम्यादिभेदेनैव लक्षणाभिधानादेवमाह । यद्वा 'गृह्णात्येव' न्याया-१०
For Private And Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110