Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मान्ताभान्तसंवेदनाविषकस्य कर्तुमशक्यत्वात् , संविन्मात्रस्य तु सर्वब्राम्यमिचारिस्वाद अयं संवेदनं विविक्तयुक्त्या प्रकाशमानमनादिकालालीनवासनासमुपजनित. संवृतिदर्शितसत्ताकं सितासितादिविविधप्रतिभासं निराकुरुते । अन्न प्रतिविदभ्महेकिमयमनेकाकारो बोधोऽद्वयसंवेदनाद् व्यत्यरैक्षीद् वा न वा, किं धातो यदि ज्यभैत्सीत्, कभमष्टतत्कार्यत्वे म्यतिरिक्तोऽयं तदद्वयसंवेदनमनुमापयेत् । अध्यतिरेकपक्षे पुनरनेकः सन् एकसंवेदनतादात्म्येन प्रथमानः कथमद्वतं नोद्दलयेत् । अथ संवृतिदर्शितस्वादलीकतया अस्य सितासिताथाकारबहिर्मुखकालुष्यस्य बोधेन ताविकेन सह भेदाभेदविकल्पानुपपत्तिरिति ब्रूषे, तथा सति परो बोधस्यापारमार्थिकत्वं अवियादर्शितत्वात् , अर्थसत्तायाः पुनस्तत्वरूपता, सर्वत्राव्यभिचाराविति ध्रुवाणो दुर्निवारः स्यात् । जडस्य प्रकाशायोगात् संवित्तिः सत्या, नार्थ इति चेत् , एकस्यानेकतावभासाभावादनेकान्तः सत्यः, नाद्वैतमिति प्रतिजानीमहे । संवत्या. द्वयस्यापि नानाप्रतिभासोऽविरुद्ध इति चेत् , अनाद्यविधाबलाजडस्यापि चेतनतया प्रकाशो न विरुद्ध इति परस्यापि शठोत्तरं नातिदुर्लभं भवेत् । किं च नाना. कारकलुषितचैतन्यसामान्यस्यान्यथानुपपत्तिसामर्थ्यतस्तस्य सिद्धत्वादद्वयसंवेदनमसिद्धं साधयेदयम् , अन्यथा निर्बन्धनतया साधनस्याप्रवृत्तेः, तथा च स्थिरस्थराद्युपं. सक्षितार्थाशवशाद् विशकलितपरमाणुक्षणक्षयिपर्यायतादात्म्यं साधयन्तमनेकान्तधादिनं न प्रतिक्षेप्तुमर्हति, युक्तरुभयत्रापि तुल्यत्वात्। किं च, योऽयं सितपीताद्यने.
तत्स्वभावः तत्कार्यत्वम् , न दृष्टं तत्कार्यत्वं यस्य स तथा, अयमनकाकारो बोधः । अय. मभिप्रायः-- भवदाशयेनायमनेकाकारो बोधः, एकस्यानेकधर्मत्वायोगाद् बाधित एव परमसो बाधितोऽप्यनेकाकारो बोधोऽद्वयं न भवति । अद्वयमनुमापयेद् यद्यद्वयस्य कार्य स्यात् । अद्वैतमिति । द्वाभ्यां प्रकाराभ्यामितं स्थितं द्वौ वा प्रकारावितं प्राप्तं द्वीतम् ; ततः प्रज्ञादेराकृतिगणस्वात् अण् , यदि वा द्वयोर्भावो द्विता ततः पूर्ववत् स्वार्थे अणि “प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचिन्”- इति वचनाद नपुंसकत्वं, ततो नसमासः । अस्येति । अनेकाकारबोधस्य । सितासिताद्याकारबहिर्मुखकालुष्यस्येति । सितासितादय आकारा यस्य तत्तथा, सितासिताद्याकारबहिर्मुखं कालुभ्यं मालिन्यं यस्य तस्य । नानाकारकलुषितेत्यादि। अयं ज्ञानाद्वत वादी नानाकारकलषितचैतन्यसामान्यस्याद्वयसंवेदनान्यथा. नुपत्तिसामर्थ्यतोऽसिद्धं सदद्वयसंवेदनं साधयेत् , न चाद्वयज्ञानवादिनो नानाकारकलुषितस्य चैतन्यसामान्यस्य हेतुतयाभिधीयमानस्याद्वित्वेन तदसिद्धम् , यदसिद्धेन साध्यते इति दोषः, यत आह तस्य सिद्धत्वादिति । यद्यपि नानाकारा अलीकास्तथापि नीलपीतादिनानेवनुगतं चैतन्यमानं सिद्धमेव, आकारालीकत्वादेव च न नानाकारकलुषितमित्युक्तम्। अन्यधेति । तदा नानाकारकलुषितं चैतन्यसामान्य सिद्धं नाभ्युपगम्यते, तदा निर्हेतुकतया द्वयविज्ञानसाधकमनुमानं प्रवतेत । किं चेत्यादि । अयमभिप्रायः किल- सितपीताद्यनेकाकार
For Private And Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110