Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org न्यायाफार " तु वर्तमानका भविष्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते माम्यथेति मम्बन्ते, तत्संघटितः स्वेवंभूत इति । तदेवं न स कश्चन विकल्पोऽस्ति वस्तुगो. चरो योsa मयसप्तके मान्तर्यातीति सर्वाभिप्रायसंग्राहका एते इति स्थितम् । Acharya Shri Kailassagarsuri Gyanmandir सांप्रतमेषामेव प्रत्येकं मतमुपवर्णयामः- तत्र गमनं गमः परिच्छेद इत्यर्थः, निश्चितो गमः निगम: विविक्तवस्तुग्रहणं, स एव प्रज्ञादेराकृतिगणतया स्वार्थिकाण्प्रत्वयविधानात् नैगमः । यदि वा, निगम्यन्ते नियतं परिच्छिद्यन्ते इति निगमा: अर्थास्तेषु भवोऽभिप्रायो नियतपरिच्छेदरूपः स नैगम इति । अयं हि सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्वगुणत्व कर्मत्वादीनि, तथान्त्यान् विशेपान् सकला साधारणरूपलक्षणानवान्तरविशेषांश्चापेक्षया पररूपण्यावर्तनक्षमान् सामाम्यादत्यन्तविनिर्लुठितस्वरूपानभिप्रेति । तथा हि किल - संविन्निष्टाः पदार्थव्यवस्थितयः, न व सामान्यग्राहिणि विज्ञाने विशेषावभासोऽस्ति, अनुवर्तमानकाकारपरामर्शेन तद्ग्रहणाद्, अन्यथा सामान्य ग्राहकत्वायोगात, नापि विशेषग्रहणक्षे संवेदने सामान्यं चकास्ति, विशिष्टदेशदशावच्छिन्नपदार्थग्राहितया तत्प्रवृत्तेः, अन्यथा विशेष संवेदनत्वायोगात् । न चैतौ परस्परविभिन्नावपि प्रतिभासमानौ सामान्यविशेष कथंचिन्मिश्रयितुं युक्ती, अतिप्रसङ्गात् विभिन्नप्रतिभासिनामपि निखिलार्थारमना मैक्यप्राप्तेः । एवं च प्रमाणयति -- परस्परविश्लिष्टां सामान्यविशेषां, पार्थक्येनोपलब्धेः इह यद्यत् पार्थक्येनोपलभ्यते तत्तत् परस्परविश्लिष्टं द्रव्यम्, तद्यथादेवदत्तयज्ञदत्ताविति, पार्थक्येन चोपलभ्येते सामान्यविशेषौ, अतः परस्परविभिनाविति । न सामान्यात् पृथग्विशेषोपलम्भ इति चेत् कथं तर्हि तस्योपलम्भ इति वाच्यम्, सामान्यव्याप्तस्येति चेत्, न तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति, विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात् तस्माद्विशेषमभिलषता तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । तथा सामान्यमपि विविक्ताकारतया स्वग्राहिणि ज्ञाने यदि न प्रकाशेत, तदा तद्गोचराभिमतसंवेदनेन विशेषस्याच्याकलनात् सामान्याभिधानव्यवहारयोः प्रवृत्तेरुच्छेदस्तथैव वक्तव्यः, विविक्तसामान्यग्राहिबोधमूलकत्वात्तयोः, तदनिष्टौ तयोरप्यभावापत्तेः । न च सामान्यं विशेषं वा तिरस्कृत्य > , " तथा अन्त्यान् विशेषानिति । उत्पादविनाशयोरन्ते व्यवस्थितत्वाद् अन्तानि नित्यद्रव्याणि तत्र भवास्तान् । अयमर्थः - तुल्यरूपरसगन्धस्पर्शेषु परमाणुषु नित्यत्वामूर्तत्वसर्वगतत्वादिभिस्तुल्यैषु सर्वात्मसु चायमस्माद्विलक्षण इति यतो योगिनां प्रत्ययः स प्रतिपरमाणु प्रत्यात्म च विशेष इति । तयोरिति । उभयत्रापि सामान्याभिधानव्यवहारयोः । तदनिष्टाविति । केवलमा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110