Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org , - ६६ सर्वत्रानुवर्तते, पर्यायास्तु भेदरूपत्वात् व्यवच्छिद्यन्ते, तथापि तत्सत्यम् इतरेऽलीका इति वक्तुं न पार्यते, न हि नीलं पीतरूपतां न बिभर्ति इत्येतावता तदसत्यम्, अतिप्रसङ्गात्, सर्वस्य पररूपपरिहारावस्थायितयालीकरवप्राप्तेः । अथ द्रव्यमेव पर्यायास्तदव्यतिरिक्तत्वात् तत्स्वरूपवत्, न सन्ति वा द्रम्यव्यतिरेकिणः पर्यायाः निःस्वभावत्वात् खपुष्पवत् इति प्रमाणयसि, तथा सति पर्याया एव द्रव्यं, तदव्यतिरिक्तत्वात् तत्स्वरूपवत् नास्ति वा पर्यायव्यतिरिक्तं द्रव्यम् निष्पर्यायत्वात् आकाश कुसुमवदिति इतरोऽपि प्रमाणयन् केन वार्यते । तत्र पक्षद्वयेऽपि काचिद्विशेषोपलब्धिरिति । यथैवानन्त सहक्रमवतिपर्यायाध्यासितं वस्तु सर्वप्रमाणेषु प्रकाशते तथैवाभ्युपगन्तव्यम्, तथा चान्यस्याभावात् तदेव तद्गोचर इति स्थितम् ॥ तथा सुगतमतानुसारिणामपि मध्ये सौत्रान्तिकस्तावदस्य हेतोरसिद्धतामाविर्भावयितुं नोत्सहते, तदभ्युपगतिव्यतिरेकेण निजदर्शनव्यवस्थानुपपत्तेः । तथा हि- बहिस्तावदेकं कारणमपरापरसामम्यन्तः तः पातितयानेककार्यकार्यावेद्यते, यथा रूपं स्वोत्तरक्षणं स्वावगाहिज्ञानादिकं च युगपज्जनयति । यदि चैकक्षणवर्तिनः सामग्रीभेदेन भेदमनुभवत एव भिन्नदेशनाना कार्यकारिता, तथा सति नित्यपक्षीदितं दूषणं स्वमस्तकोपनिपाति स्यात् तस्यापि तथैव भिन्नकालकार्यनिवर्तनेऽपि भेदाभावप्रसङ्गात् । तथा प्रतिभासभेदेन क्षणक्षयिरूपादिस्वलक्षणत्वाभ्युपगम चैवं निर्निबन्धनः स्यात्, कौटस्थ्यमाबिभ्रतोऽपि द्रव्यस्यापरापरकारणकलापान्तर्गततया नवपुराणादिपर्याय रूपरसगन्धस्पर्शावभासलक्षणकार्य संपादनाविरोधप्रसक्तेः । किं चायमेकं स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षालक्षयन् क्षणक्षयिपरमाणुलक्षणानि स्वलक्षणानि व्याचक्षीत नान्यथा, यथाकूतं तदवभासस्य स्वमान्त टीका-टिप्पनसहितः Acharya Shri Kailassagarsuri Gyanmandir संयोगादय इति दृष्टम्, घटपटादिवदेकान्तभेदिनः संयोगादय इति स्वप्नेऽप्यदृष्टम्, तयोर्हानिपरिकल्पने त एव द्वारं तेन ॥ सौत्रान्तिक इति । 'सूत्र अवमोचने' चुरादावदन्तः, ततः सूयते निणयते तत्त्वमनेनेति स्वरान्तत्वादलि सूत्रमागमः तस्यायं सौत्रः, अन्तः परिनिष्ठा; यदाहुस्तद्वादिनः प्रतिक्षणं त्रिशरारको रुपरसगन्धस्पर्शपरमाणवो ज्ञानं चेत्येव तत्त्वम् इति ततः सौत्रश्चासो अन्तश्च सौत्रान्तः, स विद्यते यस्य, अतोऽनेकस्वरात् ( सि० हे० ७६–६) इति इकः । यद्वा सूत्रान्तः प्रयोजनं प्रवर्तकं यस्य इति प्रयोजनम् ( सि० हे० ५-४-११७ ) इतीकण् । स्वोत्तरेत्यादि । स्व आत्मीयः स चासौ उत्तरक्षणच, यद्वा स्वस्मादुत्तरः स्वोत्तरः स चासौ क्षणश्चेति, स्वस्योत्तरक्षणः स्वोत्तरक्षण इति वा । स्वमात्मानमवगाहते विषयीकरोतीत्येवंशीलं स्वावगाहि, तच तत् ज्ञानं चेति । आदिशब्दात् सहकारिकारणभावेन रसालोकादिकार्यजननग्रहः । नित्यपक्षोदितमिति । एकस्य मित्रकालानेककार्यजनकस्वभावत्वे विरुद्ध धर्माध्यासादनेकस्वमिति । तथैवेति । यथैककालमेकमनेकदेशं नाना कार्य कुर्वदप्येकमेव, तथा अमिनकालानेककार्यवर्तनेऽप्येकमेवेति स्थायि - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110