Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
६५
परिकल्पने ऽप्यनेकान्तान्मोक्षः इति वरमादावेव मत्सरितां विहायानंकधर्माध्यासितं वस्त्वभ्युपगतं किं भेदकानयास्थान एवात्मना परिक्कुशितेन इति । किं चानेका ताभ्युपगमे सत्येष गुण:- परस्परविभक्तंप संयोगिसंयोगसमवायिसमवायगणिगुणावयवावयविष्यन्तिसामान्यादिषु संयोगसमवायगुण्यवयविसामान्यादीनां संयीगिसमवायिगुणावयविशेषादिषु वर्तनचिन्तायां यदूषणजालमुपनिपतति, तदपि परिहृतं भवति, एकान्तभेद एव तदुपपत्तेः, अनेकान्ते तदुत्थानाभावान् । तथा हि भिचाः खलु संयोगादयः संयोग्यादिभ्यो विकल्पयितुं पार्यन्ते यद्भुत कथमेतते बर्तन्ते इति । किमेकदेशेन यद्वा सामस्त्येन । यद्येकदेशेन तदयुक्तम् तेषां निरक्य वरवाभ्युपगमात्, सावयवत्वेऽपि तेभ्योऽवयवेभ्यो यद्यभिन्नाः, ततोऽनेकान्ताः पतिः, एकस्यानेकावयवत्वप्राप्तेः । अथ भिन्नास्तेष्वपि ते कथं वर्तन्ते इति वाक्यम्, एकदेशेन सामस्त्येन वा । एकदेशपक्षे तदेवावर्तते इत्यनवस्था । अथ सामज्येनतदप्यसाधीयः, प्रत्येकं परिसमाप्ततया संयोगादिबहुत्वप्रसङ्गात्तदभिन्ना: पुन संयोगादयो न विकल्पभाजो भवन्ति । अभेदपक्षेऽपि संयोगादिमात्रं संयोग्या दिमात्रं वा स्यादिति चेन्न तस्याप्येकान्तेनानभ्यपगमात् किं तहि अन्यान्या विष्टिस्वरूपा विवक्षया संदर्शनीयभेदाः सर्वे एवतेऽभ्यपगम्यन्ते, तथाविधानां कुयुक्ति विकल्पोत्थापितदूषणसमूहनिराकरणक्षमस्वात्, अबाधित प्रतिभासेषु सर्वत्र तेषां तथैव प्रतिभासनात्, अन्यथा प्रतिभासमानानामन्यथा परिकल्पने दृष्टहान्य ष्ष्टपरिकल्पनाद्वारेणासमञ्जसप्राप्तेः तथा च ब्रह्माद्वैतशुन्यवादादयः सिद्धिमभुवीरम, विशेषाभावादिति ॥
एतेनास्य हेतो: कापिला अप्यसिद्धतादिदोषमभिधित्सवो मौक्यमानीताः । तथा हि- अन्तरेकं संवेदनमपरापरहर्षविषादाद्यनन्तधर्मविवर्ताक्रान्तरूपं बहिश्च घटादिकमर्थं नवपुराणादिवर्तलपार्थिवत्वाद्यनेकस्वभावावष्टव्धशरीरं साक्षालक्षयन्तः कथं तद्विपरीतकथने प्रवर्तेरन् प्रकृतिपुरुषात्मकं द्रव्यमेवैकं तात्विकम्, पर्याय भ्रान्ति, जनकः पुनर्विवर्तोsपारमार्थिक इति चेन्न, द्वयोरपि सर्वप्रमाणेषु प्रकाशमानयोरबा धितयोः सर्वव्यवहार निबन्धनयो: पक्षपातमन्तरेणैकस्य निह्नोतुमशक्यत्वात् । तथा सति विवर्त एव ताविकः, द्रव्यं पुनरलीकमिति पर्यायपक्षपाती प्रसञ्जयन् दुर्नि षेधः स्यादिति । अथेत्थमभिदधीथाः- द्रव्यं सर्वत्राव्यभिचरितरूपत्वात् सत्यम्, पर्यायाः पुनर्व्यभिचारिण इत्यसत्याः । तदयुक्तम्, यदि नाम द्रव्यमभेदरूपत्वात्
For Private And Personal Use Only
परस्परविभक्तेषु संयोगिसंयोगसमवायिसमवायगुणिगुणावयवावयविव्यक्तिसामान्यादिष्विति। अत्र गुणग्रहणेनैव संयोगे लब्धे गोबलीवर्दन्यायेनात्यन्तप्रसिद्धत्वातगुणेभ्या निष्कृष्य पृथक् संयोगस्योपादानम्, गुणास्तु रूपादयो द्रव्याः, आदिशब्दाद् द्रव्ये कम्पादिकर्मणो वृत्तौ दूषणपरिग्रहः । तेषां संयोगादीनाम् । दृष्टेत्यादि । संयोग्यादिभ्यः कथंचिद्भिन्नाः
न्याया-९

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110