Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घटादेः कचित् प्रमाणपत्रकं तद्वोचरं निवर्तमानमभावं साधयति, एवं समस्तवस्तुसंवेदनगोचरमपि तनिवर्तमानं नियतदेशदशावच्छिन्नमभावं साधयेत् , म सर्वत्र, ततम घटादिवत् तानिरिं स्मात् । अथ द्वितीयः पक्षः, असौ असंभव्येव, समस्तदेशकालवर्तिपुरुषपरिषत्संवेदनसाक्षात्कारिणो मेवं वक्तुं युक्तम् - यदुत न कचित् समस्तार्थसंवेदनमस्ति इति, न भवतः, तथाविधपुरुषसंभवानभ्युपगमात्, इतरथा य एव कश्विनिचित्यैवमभिदध्यात्, स एव समस्तवस्तुविस्तारण्यापिज्ञानालोकः इति समस्तार्थगोचरसंवेदनसिद्धिरित्यास्तां तावत् ॥ २७ ॥
___ तदेवं प्रमाणविषये लक्षणसंख्याविप्रतिपत्ती निराकृत्याधुना क्रमप्राप्तां गोचरविप्रतिपत्तिं बहुवक्तग्यस्वादनिराकृत्य तावत् फलविप्रतिपत्तिं निराचिकीर्षुराह
प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥ २८॥
द्विविधं हि प्रमाणस्य फलम्-साक्षादसाक्षाच्च, अनन्तरं व्यवहितं चेत्यर्थः। तत्र साक्षादज्ञानमनध्यवसायः प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम् , अज्ञानोहलनद्वारेण तस्य प्रवृत्तेः, तस्य च सर्वानर्थमूलतया प्रमात्रपकारित्वात् तनिवर्तनस्य प्रयोजनता युक्तैव, एतच्चानन्तरप्रयोजनं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तम् । व्यवहितप्रयोजनं पुनर्विभागेनाहकेवलस्य सर्वज्ञज्ञानस्य सुखं वैषयिकसुखातीतपरमाहादानुभवः, उपेक्षा साक्षात् समस्तार्थानुभवेऽपि हानोपादानेच्छाभावान्मध्यस्थवृत्तिता, ते सुखोपेक्षे फलमित्यर्थः। शेषस्य तद्व्यतिरिक्तप्राकृतलोकप्रमाणस्यादानं ग्रहणं हानं परित्यागस्तयोरादानहानयो(र्बुद्धिरादानहानधीः सा फलं इति यावत् । ततश्नादेयानां सम्य ग्दर्शनादि स्रक्चन्दनादीनां यादित्सा, तथा हेयानां मिथ्यादर्शनादिविषकण्टकादीनां या जिहासा प्रमाणसाध्या, अप्रमाणात् तदसिद्धेः, प्रेक्षापूर्वकारिणां ततः प्रवृत्त्ययोगादित्युक्तं भवति ॥ २८ ॥ ___ अधुना गोचरविप्रतिपत्तिं निराचष्टे
अज्ञानोद्दलनद्वारेणेति । अज्ञानमुद्दलयदेव प्रमाणं प्रवर्तते इति । किमुक्तं भवति ? न प्रमाणात् फलमेकान्तेन भिन्नमभिन्नं वा, भेदाभेदरूपतयैवानन्तरपरंपरभेदस्य प्रतिमासनात् । तथा हि- यस्यैवात्मनः प्रमाणकारितया परिणामः फलरूपतयापि तस्यैव सः, य एवं प्रमिमीते स एव निवृत्ताझानो जहात्याददाति उपेक्षते चेति प्रतीतः । एष चैकप्रमात्रपेक्षया प्रमाणफलयोरभेदः, करणक्रियापरिणामभेदाच्च भेदः । उक्तं च
पारंप . साक्षाच्च फलं द्वेधाभ्यधायि यत् । जिनैभिन्नमभिन्नं च प्रमाणात्तदिहोदितम् ॥ २८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110