Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra ६१ www. kobatirth.org टीका-टिप्पनसहितः " स्वरूपतोऽप्रसाध्य लक्षणमभिदधानस्य कोऽभिप्रायः इति । अत्रोच्यते - ये मे मिथ्यावले पाध्मातान्तः करणाः प्रमाणप्रसिद्धमप्यदः प्रति विप्रतिपद्यन्ते तेषां धान्यीकृतबुद्धित्वादवधारणीयतामनेन दर्शयति । किमस्य प्रतिपादकं प्रमाणमिति चेत् एते ब्रूमः - समस्ति समस्तवस्तुविचारगोचरं विशददर्शनम्, तगोचरानुमानप्रवृत्तेः । इह यद्यद् गोचरमनुमानं प्रवर्तते, तस्य तस्य ग्राहकं किंचित् प्रत्यक्षमुदयपदवीं समासादयति, यथा चित्रभानोः । प्रवर्तते च सकलार्थविषयमनुमानम्, अतस्तदवलोकिना विशददर्शनेनापि भाग्यमिति । सर्वार्थविषयकं किमनुमानं प्रवर्तते इति चेत् । इदमपि ब्रूमः - इह यद्यदस्ति तत् सर्व स्थित्युदयापवर्गसंसर्गमनुभवति, वस्तुत्वात् यद्यद्वस्तु तत्तत् स्थेमजन्मप्रलयैः क्रोडीकृतम् । तद्यथाअङ्गुलिरङ्गु लित्व वक्रत्वर्जुत्वापेक्षयेति, वस्तु च यदस्ति, अतः प्रस्तुतत्रयाक्रान्तं तदवगन्तव्यम् । इदमेव निखिलार्थगोचरमनेकान्तानुमानं ज्ञानक्रियाभ्यासातिशयान्निखिलावरणविच्छेदे विबन्धककारणाभावाद् विशददर्शनी भवति । न चानुमानप्रवृत्तावध्यनर्थित्वादिना प्रमातुरप्रवृत्तौ अनुमेयगोचरप्रत्यक्षासंभवेन व्यभिचारश्रोदनीयः, संभवस्य साध्यतयाभिप्रेतत्वात् । न च संभवमात्रेऽस्ति व्यभिचारः, सर्वानुमेयानां संभवत्प्रत्यक्षतया व्याप्तत्वादिति । अथवान्यथानुमानयाम :- संभवत्समस्तशुद्धिक आत्मा, विद्यमानशुद्ध युपायत्वात् इह यो यो विद्यमानशुद्धयुपायः स स संभवत्समस्तशुद्धिकः, यथा विद्यमानक्षारमृत्पुटपाकादिशुद्ध युपायो रत्नविशेष:, तथा च विद्यमानज्ञानाद्यभ्यासशुद्ध युपाय आत्मा, अतः संभवत्समस्तशुद्धिक इति । सामस्त्यशुद्धश्वात्मा ज्ञानज्ञानिनोः कथंचिदभेदात् केवलमभिधीयते इति । ज्ञानाद्यभ्यासः कथं विशुद्धिकारणमिति चेत्, आवरणमलप्रतिपक्षरूपत्वादिति ब्रूमः । प्रतिपक्षरूपता कथमवधारिता इति चेत्, तवैव दर्शनात् । तथा हि- दृश्यते ज्ञानाचभ्यासतः प्रतिक्षणमावरणविलयः, विशिष्टविशिष्टतरतत्कार्यबोधाद्यनुभवात्, तदति: शये पुनः सामस्त्योच्छेदः स्यादित्यभिदध्महे । एतेन यत्परे प्रोचुः यथा- प्रत्यक्षादिप्रमाणपञ्चकगोचरातिक्रान्तत्वात् सर्वार्थसंवेदनमभावाख्यं षष्ठप्रमाणगोचरतां प्रतिपद्यते तदयुक्तम्, तत्संभवस्यानुमानेन प्रतिपादनात् प्रमाणपञ्चकप्रवर्तनाभावासिद्धेः किं च । प्रमाणपञ्चकं तद्गोचरं न प्रवर्तते इति कथं भवतो निर्णयः किं नियतदेशकालव्याप्त्या यद्वा समस्त देशकालास्कन्दनेनेति ? यद्याद्यः पक्षः, ततो यथा > , Acharya Shri Kailassagarsuri Gyanmandir मिथ्यावले पाध्मातान्तःकरणा इति । अलीकाभिमानापूरितमनसः । चित्रभानोरिति । वह्नेः । स्थेमेति । स्थिरस्य भावः, पृथ्व्यादित्वादिमनि स्थादेशे धौव्यमित्यर्थः । ज्ञानाद्यभ्यासत इति । ज्ञानाभ्यासात् ज्ञानावरणविलये ज्ञानावरणविलयकार्यो ज्ञानविशेषो दृश्यते । आदिशब्दात् दर्शनाभ्यासात् दर्शनावरणविलये दर्शनावरणविलयकार्यो दर्शनविशेषानुभवो गृह्यते । एवं चारित्राभ्यासेऽपि । तदतिशये ज्ञानाथभ्यासातिशये ॥ २७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110