Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
म्यायावतारः
६७
रेऽप्यनुपलक्षणात्, लक्षितस्य चालक्षितव्यतिरेक निराकरणतस्तादात्म्यं कथयन् स्वगिरानेकान्तावभासं समर्थयते । तथा हि- अलक्षितपरमाणुपारिमाण्डव्य प्रतिक्षणविवर्तमपि स्वलक्षणं स्थिरस्थूराद्यात्मना दर्शयति स्वरूपम्, अन्यथा सुषुप्तं जगदा. सज्येत तदप्रकाशने प्रमाणान्तरस्याप्यत्यन्त विलक्षणस्वलक्षणावेदकस्याप्रवृत्तिप्रसङ्गात् । तथान्तःसंवेदनमर्थस्वरूपापेक्षया बहिर्मुखान्तर्मुखसविकल्पाविकल्पभ्रान्ताअन्तादिप्रतिभासमेकमभ्युपयतः कथमनेकान्तावभासोऽसिद्धः स्यात् ? तथा नानादेशस्थितार्थसार्थसमर्पिताकारोपरक्तमेकमाकार भेदेऽप्यन्यथा युगपत्प्रकाशमान सितासि - ताद्यर्थव्यवस्थित्यनुपपत्तेः संवेदनमनुमन्यमानः कथं भिन्नसमयभावि हर्षविषादाद्यनेकविवर्तवशात् तदभेदमात्यन्तिकमभिदधीत, अभिन्नयोगक्षेमत्वात् । युगपद्भाविनां संविदन्तर्निविष्टाकाराणामेकत्वं न हर्षादीनाम्, तद्विपर्ययादिति चेन्न, तत्सामर्थ्यव्यव स्थाप्यार्थाभेदप्रसङ्गात्, तदेकतया सितपीतादिषु ज्ञानस्य बोधरूपेणैवाविशिष्टत्वात् । सदेवं बहिरन्तश्चैकानेकरूपत्वे प्रमाणतः स्थिते स्वलक्षणस्यान्यथा स्वाभ्युपेतदर्शनव्यवस्थायोगाद् नार्थवाद्यनेकान्तप्रकाशं प्रतिक्षेप्तुमर्हति ॥
Acharya Shri Kailassagarsuri Gyanmandir
त्वसिद्धिः । अलक्षितेत्यादि । परिमण्डलाः परमाणवः तेषां भात्रः पारिमाण्डल्यं वर्तुलत्वं परमाणुपरिमाणमेव वा अनुशतिकादित्वाद् उभयपदवृद्धिः । प्रतिक्षणं प्रतिसमयं विवर्तः परिणमनं स तथा परमाणूनां पारिमाण्डल्यप्रतिक्षणविवर्तौ, तथा न लक्षितौ परमाणुपारिमाण्डल्यप्रतिक्षणाविवर्तौ यस्य स्वलक्षणस्य तत् । स्थिरस्थूरादीति | आदिशब्दान् पृथुलुध्नोदराद्याकारो गृह्यते । तदप्रकाशने स्थिरस्थूराद्यात्मकवस्त्व प्रकाशने । बहिर्मुखेति । हिर्बाह्यवस्तुविषये मुखमारम्भः प्रकाशनप्रवृत्तिर्यस्य तत्तथा बाह्यवस्त्वभिमुखमित्यर्थः । एवमन्तर्मुखेत्यप्युक्तानुसारतो व्याख्येयम्, आदिशब्दात् प्रमाणाप्रमाणादिपरिग्रहः । नानादेशेत्यादि । उपरक्तं विशेषितं एकं संवेदनमिति संबन्धः । अन्यथेति । नानाकारोपरक्तभावे । अभिनयोगक्षेमत्वादिति । प्राग्वद्भावनीयम् । तद्विपर्ययादिति । भिन्नकालभावित्वात् । तत्सामर्थ्यादित्यादि । तेषां संविदन्तर्निविष्टाकाराणां सितपीतादीनां सामर्थ्यम्, तेन व्यवस्थाप्यो योऽर्थस्तस्यैक्यप्रसङ्गात् । तदेकतया आकाराणामेकतया, सितपीतादिवस्तुविषयिणो ज्ञानस्य बोधरूपेणैव वा विशिष्टत्वात्, बोधस्वरूपतैव ज्ञानस्योद्वरिता, न पुनः सितपीतादयो बहिरर्थव्यवस्थापकाः केचिदाकाराः । क्वापि बोधरूपेणैवाविशिष्टत्वात् इति पाठः, तदैवं व्याख्या- यथा बहुष्वपि सितपीतादिषु वस्तुषु ज्ञानस्य बोधरूपेणाविशिष्टत्वं समानत्वम्, तथा सितपीताद्याकाराणामेकत यापीत्यर्थः । अयमभिप्रायः- यदैकज्ञानान्तर्वर्तिन। नानादेशव्यवस्थितार्थप्रभवानां बहूनामप्याकाराणामेकत्वम्, तदा तदेकाकारज्ञान व्यवस्थाप्यस्य बहिर्वस्तुस्तोमस्याप्येकत्वं स्यात् ; एकनीलाकारज्ञानव्यवस्थाप्य बहिर्नीलस्वलक्षण एकत्ववत् । बहिरन्तश्चेत्यादि । प्रमाणत एकानेकरूपत्वे स्वलक्षणस्य व्यवस्थिते इति संबन्ध: । यथा च वृक्षादिवस्तूनां संनिहितासंनिहिताभ्यां स्पष्टास्पष्टप्रतिभासजनकत्वेन स्वलक्षणत्वम्, यस्या
For Private And Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110