Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः सन्तोऽनेकान्तमन्तरेण नोपपद्यन्ते, इति तमेव प्रतिपादयितुमीशते । विमूढबुद्धिभिः पुनः विपक्षसाधनार्थमुपन्यस्यमाना विवक्षयासिद्धविरुद्धानकान्ति कतामाबिभ्रतीति स्थितम् ॥ २३ ॥ तदेवं हेत्वाभासान् प्रतिपाद्य दृष्टान्तलक्षणव्युदस्तान् दृष्टान्ताभासानाह साधयेणात्र दृष्टान्तदोषा न्यायविदीरिताः। अपलक्षणहेतूत्थाः साध्यादिविकलादयः ॥ २४॥ साधनं साध्याकान्तमुपदर्शयितुमभिप्रेतं यस्मिस्तत् साधर्म्यम् तेन, अत्र व्यतिकरे, दुष्यन्त इति दोषाः, दृष्टान्ता एव दोषाः दृष्टान्तदोषाः, दृष्टान्ताभासा इत्यर्थः, न्यायविदीरिता विद्वद्भिर्गदिताः । साध्यं गम्यम् , आदिशद्वात् साधनोभयपरिग्रहः, तद्विकलास्तच्छून्याः, आदिशद्वात् संदिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते। किंभूता एते इत्याह- अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्व तेभ्य उत्थानं येषां तेऽपलक्षणहेतूत्थाः । इदं च प्रायिकं विशेषणम् , सम्यग्हेतावपि वक्तृदोषवशात् दृष्टान्ताभासतोपपत्तेः। यथा-नित्यानित्यः शद्धः, श्रावणत्वात् घटवदित्यादि। तत्र साध्यविकलो यथा- भ्रान्तमनुमानम् , प्रमाणत्वात् , प्रत्यक्षवत् । प्रत्यक्षस्य भ्रान्तताविकलत्वात् , तद्भ्रान्तत्वे सकलव्यवहारोच्छेदप्रसङ्गात् , तदुच्छेदे च प्रमाणप्रमेयाभावात् न किंचित् केनचित् साध्यत इति भ्रान्तवादिनो मूकतामापयेत। साधनविकलो यथा-जामत्संवेदनं भ्रान्तम् , प्रमाणत्वात् स्वमसंवेदनवत् । स्वप्नसंवेदनस्य प्रमाणतावैकल्यात् तत्प्रत्यनीकजाग्रत्प्रत्ययोपनिपातबाधितत्वादिति । उभयविकलो यथा- नास्ति सर्वशः, प्रत्यक्षाद्यनुपलब्धत्वात् , घटवत्। घटस्य सत्त्वात् प्रत्यक्षादिभिरुपलब्धत्वाच । संदिग्धसाध्यधर्मों यथा- वीतरागोऽयम् , मरणधर्मत्वात् रथ्यापुरुषवत् । रथ्यापुरुषे वीतरागत्वस्य संदिग्धत्वात् , विशिष्टचेतोधर्माणां क्रमयोगपघनिवृत्यार्थक्रियाकारित्वं वर्तमानं सत्स्वब्याप्तं सत्त्वं निवर्तयति । ननु चार्थक्रियासामर्थ्यमेव सत्त्वं नान्यत्, तथा च मानश्रीः- “यदि नाम प्रतिदर्शनं सत्त्वभेदस्तथाऽपीहार्थक्रियासामर्थ्यमेव सत्त्वमभिप्रेतमिति," ततश्चार्थक्रियासामर्थ्यत्वयोर्घटकुम्भयोरिव व्यावृत्ति. कृतस्य भेदस्याभावात् कथं व्याप्यव्यापकभावः । उच्यते, कारणस्य कार्यात्प्राग्मावित्वमर्थक्रियासामर्थ्य भवनधर्मकत्वमात्रं तु सत्त्वमिति व्यक्तो व्यावृत्तिकृतो मेदः। यत्तूक्तम्- अर्थक्रियासामर्थ्यमेव सत्त्वमिति, तदर्थक्रियासामर्थ्यव्यभिचारित्वात् सत्त्वस्येति ॥ २३ ॥ संदिग्धसाध्यधर्मेति । संदिग्धश्चासौ साध्यश्च संदिग्धसाध्यः संदिग्धसाध्यो धर्मो यस्यति बहुव्रीहिः, न पुनः संदिग्धः साध्यो धर्मो यस्येति संदिग्धः साध्यधर्मो यस्येति वा, धर्मादन् वा केवलात् इत्यनेन केवलात्पदात्परो यः केवलो धर्मशब्दः तस्मादनो विधानात्। एवं संदिग्धसाधनधर्मादिष्वपि वाच्यम् । ब्याहारादीति । आविशब्दाचेष्ठाकारपरिग्रहः । तविर्णपस्येति । विशिष्टव्यापारादिलिजनित्रयस्येत्यर्थः ॥ २४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110