Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्यापावतारः
>
1
बहिः स्वलक्षणे प्रवेशाभावात्, ततश्वाप्रतीतत्वात् सर्वस्यासिन्द्रत्वम् । नित्यैकान्तेऽवि धर्मिणोऽत्यन्तव्यतिरिक्तानामपारमार्थिकानां वा स्वसाधनधर्माणां प्रमाणेनाप्रतीतस्वादसिद्धता द्रष्टा, धर्मिणोऽविनिर्लुठितरूपाणां पारमार्थिकानां सकलधर्माणां प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन निहोतुमशक्यत्वादिति । तथा विरुद्वतापि पक्षद्वयेऽपि सर्वसाधनधर्माणामुया, अनेकान्तप्रतिबद्धस्वभावत्वेन तत्साधनप्रवणत्वात् । एतच्चोतरे वक्ष्यामः । एवं पक्षद्वयेऽपि निर्दिश्यमानाः सर्व एव तवोऽनैकान्तिकतामात्मसात्कुर्वन्ति, परस्परविरुद्वाव्यभिचारितत्वात् समानयुक्त्युपन्यासेन विपक्षेऽपि दर्शयितुं शक्यत्वात् । तथा हि-अनित्यवादी नित्यवादिनं प्रति प्रमाणयति- सर्व क्षणिकम्, सवात्, अक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्, अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदिति क्षणिकत्वसिद्धिः । न हि नित्योऽथोऽर्थक्रियायां क्रमेण प्रवर्तितुमुत्सहते, पूर्वार्धक्रियाकरणस्वभावोपमर्दद्र/रेणोत्तर क्रियायां प्रवृत्तेः, अन्यथा पूर्वार्थक्रियाकरणाविरामप्रस ङ्गात्, तत्स्वभावप्रच्यवे च नित्यता अपयाति, अतादवस्थ्यस्यानित्यलक्षणत्वात् । नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थ मुदीक्षमाणस्तावदासीत्, पश्चात् तमासाद्य क्रमेण कार्यं कुर्यादिति चेत्, न, सहकारिकारणस्य नित्येऽकिंचित्करत्वात्, अकिंचित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्येन नित्योऽथाऽर्थक्रियां कुरुते, अध्यक्षविरोधात् । न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा, तथाप्याद्यक्ष एव सकलक्रियापरिसमाप्तेर्द्वितीयादिक्षगेष्व कुर्वाणस्यानित्यता बलादाढौकते, करण करणयोरेकस्मिन् विरुद्वत्वादिति । नित्यवादी पुनरेवं प्रमाणयति - सर्व नित्यम् सवात्, क्षणिके सदसत्कालयोरर्थक्रियाविरोधात् तलक्षणं सवं नावस्थां बनातीति ततो निवर्तमानमनन्यशरणतया नित्यत्वं साधयति । तथा हिक्षणिकोऽर्थः सद् वा कार्यं कुर्यात्, असद् व, गत्यन्तराभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकरणभावप्राप्त्यातिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्ति विकलत्वात्, अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन्, विशेषाभावादिति । तदेवमेकाये ये तवस्ते ते युक्तेः समानतया विरुद्धं न व्यभिचरन्ति, अविचारितरमणीयतया मुग्धजनध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिकाः, सर्ववस्तुधर्माणां वस्तुतोऽनेकान्तप्रतिबद्धत्वादिति । तस्मादमी सर्व एव हेतवः
"
५५
For Private And Personal Use Only
भूदिति न किंचित् । एवं तुच्छं व्यवच्छेदमात्रं सर्वथा भिन्नं स्वलक्षणं वस्त्वसंस्पर्शिनी त्रिकल्पबुद्धिश्च शब्दे नास्तीति चाक्षुषत्वमपि तत्र न इत्यप्यसारमेवेति भावः । नित्यैकान्त इत्यादि । धर्मिणोऽत्यन्तव्यतिरिक्तानामिति नैयायिकवैशेषिकाभिप्रायेण । अपारमार्थिकानां वेति अद्वैतवाद्यभिप्रायेण । ततोऽर्थक्रिया व्यावर्तमानेत्यादि । अक्षणिका

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110