Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांप्रतं हेतुलक्षणं स्मारयन् तपास्तान् हेत्वाभासालाह
अन्यथानुपपनत्वं हेतोर्लक्षणमीरितम् . तदप्रतीतिसंदेहविपर्यासैस्तदाभता ॥ २२ ॥ हेतोर्लक्षणमसाधारणधर्मरूपं यदीरितं गमितम् , अनेकार्थत्वाद् धातोः प्रतिपादितं, स्वार्थानुमानप्रस्तावे यदुतान्यथानुपपनस्वमिति, तस्याप्रतीतिरनभ्यवसायः, संदेहो दोलायमानता, विपर्यासो वैपरीवनिर्णयः, अप्रतीतिश्च संदेहब विपर्यासति द्वन्दः, पश्चात् तदा सह तत्पुरुषः, तैस्तदप्रतीतिसंदेहविपर्यासैः, तदाभता आभानमामा सस्येव सम्यग्हेतोरिवाभा अस्येति तदाभस्तनावः तत्ता, हेत्वाभासता भवतीत्यर्थः ॥ २२ ॥ अधुना येन लक्षणेन यत्रामा हेत्वाभासो भवति तदर्शयति--
असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते।
विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥२३॥ यः कश्चिदप्रतीतः प्रतीस्या अगोचरीकृतोऽनिश्चितः सोऽसिद्धनामा हेत्वाभासः। तुशब्दः त्रयस्यापि भेदोड्योतकः। यस्त्वन्यथैव साध्यं विनैव, विपक्ष एवेति यावत्, उपपद्यते संभवति स विरुद्धाभिधानः । यः पुनरन्यथाऽपि साध्यविपर्ययेणापि युक्तो घटमानकः, अपिशब्दात् साध्येनापि, सोऽत्र व्यतिकरे अनेकान्तिकसंज्ञो ज्ञातव्य इति । तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरुद्धबुद्धिभिः कणभक्षाक्षपाद.
झानतारतम्यं क्वचिद्विश्रान्तम् , तारतम्यत्वात् , आकाशपरिमाणतारतम्यवत् , यत्रैतद्वि. श्रान्तं स सर्वनः । तथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः, अनेकत्वात्, पश्चागुलवत्। तथा कश्चिदात्मा सर्वार्थसाक्षात्कारी, तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धकत्वात्, यथा अपगततिमिरादिप्रतिबन्धं चक्षुर्बानं रूपसाक्षात्कारि । एवं ज्ञानं क्वचिदात्मनि प्रकर्षवत्, स्वावरणहान्युत्कर्षे सति प्रकाशात्मकत्वात् , चक्षुर्दीपादिवत् , स्वावरणहान्युत्कर्षस्तु आवरणहानिः क्वचिज्जीवे परमकाष्ठाप्राप्ता, प्रकर्षत्वात् , परिमाणवदित्यनुमानात् ॥२१॥
तस्येत्यादि । तस्यान्यथानुपपन्नत्वस्य । इहायं भावार्थ:- विद्यमाने हेतावन्यथानुपपन्नत्वस्य संदेहे अनैकान्तिकता, विपर्यासे विरुद्धता, तस्मात् परिशेष्यात् अत्र हेतोरसत्तायां संदेहे वान्यथानुपन्नत्वस्याप्रतीतिः । तथा चासिद्धत्वलक्षणमन्यत्र- असत्सत्तानिश्चयोsप्रसिद्ध इति असन्तौ सत्तानिश्चयौ यस्येति विग्रहः, अत एवानेतनकारिकायां सूत्रकारोऽपि वक्ष्यति---असिद्धस्त्वप्रतीतो य इति । दोलायमानतेति । दोलोऽन्दोलकः, उभयपक्षगामित्वेन तद्वदाचरन् संदेहोऽपि दोलायमानस्तस्य भावः तत्ता ॥ २२ ॥
व्यतिकरे इति । प्रस्तावे । कणभक्षेत्यादि । कणभक्षकः कणादापरनामा वैशेषिक:, अक्षपादो नैयायिकानामाधाचार्यवर्यः, बुद्धः सुगतः, आदिशब्दात् सांख्यादिपरिग्रहः, तेषां
For Private And Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110