Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः सोऽयुक्तः, यदा सर्वत्र साध्याविनाभाविनं हेतुं स्मरति प्रतिपाद्यः, तदा पक्षेऽपि तमवबुध्य कथं साध्यं न प्रतिपयेत ? ततश्चान्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वमन्ताप्तिः, तयैव साध्यस्य गम्यस्य सिद्धेः प्रतीतेः बहिर्विवक्षितधर्मिणोऽन्यत्र दृष्टान्तधर्मिण्युदाहृतिः व्याप्तिदर्शनरूपा व्यर्था निष्प्रयोजना, तत्प्र. त्याय्यार्थाभावादिति । द्वितीयपक्षस्यापि निर्दोषतां निरस्यनाह- तदसद्भावेऽप्येवम् संबन्धाग्रहणादन्तर्व्याप्त्यभावेऽप्येवमिति व्यथैव बहिरुदाहृतिः, न हि सहदर्शनात् क्वचित् सर्वत्र तद्रूपता सिध्यति, व्यभिचारदर्शनात् । तस्मादगृहीतसंबन्धे प्रतिपाये प्रमाणेन प्रतिबन्धः साध्यः, तत्सिद्धौ तत एव साध्यसिद्धरकिंचकरी दृष्टान्तोदाहृतिरिति न्यायविद्वांसो विद्वबुध्यन्त इति । इह च प्रकरणे शेषावयवानामुपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्तरुचिसत्वानुग्रहपरत्वादस्य यद्यपि साक्षालक्षणं नोक्तम्, तथाप्यत एव प्रतिपादितावयवत्रयाद् बुद्धिमभिरुन्नेयम् । यतोऽवयवापे. क्षया जघन्यमध्यमोत्कृष्टास्तिस्रः कथा भवन्ति । तत्र हेतुप्रतिपादनमात्रं जघन्या । द्वयाद्यवयवनिवेदनं मध्यमा । संपूर्णदशावयवकथनमस्कृष्टा । तत्रेह मध्यमायाः साक्षात् कथनेन जघन्योत्कृष्ट अर्थतः सूचयति, तत्सद्भावस्य प्रमाणसिद्धत्वा. दिति ॥ २०॥ एवं पक्षादिलक्षणं प्रतिपाद्येदानी हेयज्ञाने सत्युपादेयं विविक्ततरं वेद्यते इति तद्वयुदस्ताः पक्षहेतुदृष्टान्ताभासा वक्तव्याः। तत्र तावत् पक्षलक्षणव्युदस्तान् पक्षाभासानाह - प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः। लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः॥ २१ ॥ पक्षस्थानोपन्यस्तत्वात् तस्कार्याकरणत्वाच्च पक्षवदाभासत इति पक्षाभासः । असावनेकधा अनेकप्रकारो मत इति संबन्धः । कथमित्याह- प्रतिपाद्यस्य प्रतिवादिनो यः कश्चित् सिद्धः प्रतीतावारूढ एव स पक्षाभासः, साध्वस्यैव पक्षत्वात् , सिद्धस्य साधनानहत्वाद् , अतिप्रसक्तेः। तथा अक्षलिङ्गतोऽध्यक्षहेतुभ्यां लोकस्ववचनाभ्यां च बाधितस्तिरस्कृतो यः स पक्षाभासः। तत्र प्रतिपाद्यसिद्धो यथा-पौद्गलिको घटः, सौगतं वा प्रति सर्व क्षणिकमित्यादि । प्रत्यक्षबाधितो यथा- निरंशानि स्वलक्षणानि, परस्परविविक्ती वा सामान्यविशेषाविति । अनुमानवाधितो यथानास्ति सर्वज्ञ इति । लोकबाधितो यथा-गम्या माता इति । स्ववचनबाधितो यथान सन्ति सर्वे भावा इति ॥ २१ ॥ तद्वयुदस्ता इति । पक्षादिलक्षणरहिताः । अध्यक्षहेतुभ्यामिनि । हतुलिङ्गं, कारणे कार्योपचारान् ; तत्प्रभवं ज्ञानमपि हेतुरनुमानमित्यर्थः । अनुमानबाधित इति । तच्च काचदसर्वज्ञे सर्वज्ञशब्दो मुख्यसर्वज्ञापेक्षः, गौणत्वात् , माणवकेऽग्निशब्दवत् , यद्वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110