Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नावावतार
ग्रहीते प्रतिवन्ध स्मर्षमागे केवळ तुरंानीयः, तावतेव बुमुस्सितार्यसिदेरान्तो बवाच्यः, वैपात् । यदा तु गृहीतोऽपि विस्मृतः कथंचित् संबन्धः, तदा तत्स्मरणार्थ हाम्तः कथ्यते । मनु वयं त्रिकालसमस्त देशव्यापिसंबन्धावगतिः ? न तावति गंयात्मकमपि प्रत्यक्षं देशकालान्तरसंचरिष्णुनोः साध्यसाधनयोः संबन्धं निरीक्षितुं धमते, संनिहितेऽथे विशदाध्यवसायेन प्रवृत्तेः । नापि शब्दात्तनिर्णयः, तस्य परोपपेशरूपतया स्वार्यानुमानाभावप्रसङ्गात् , तन्त्र परोपदेशाभावात् , तदभावे संबन्धासिदः, तदसिद्धावनुमानानुत्यानादिति । अनुमानासंबन्धग्रहणे निरवधिरनवस्थानुज्येत, संबन्धमाहिणोऽप्यनुमानस्य पुनः संबन्धान्तरग्रहणसम्यपेक्षत्वादिति । अत्रोच्यते- प्रत्यक्षानुमाने द्वे एव प्रमाणे इति येषां मिथ्याभिनिवेशः, तेषामेष दोषो मास्माकम्, अन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भोत्तरकालभाविनोऽग्यभिचरितत्रिकालव्यापिगोचरस्य मतिनिबन्धनस्योहसंज्ञितस्य प्रमाणान्तरस्य संबन्धग्राहितयेष्टत्वात् , तदनिष्टौ दृष्टम्यवहारविलोपप्रसङ्गात् , तद्विलोपे च विचारानर्थक्यप्राप्तेरिति। अत्र प्रकरणे पुनरनुमानात् पार्थक्येनोहो न दर्शितः, संक्षिप्तरुचिसत्वानुग्रहप्रवृत्तस्वादस्य, शाब्दं तु पृथक् समर्थितम् , तस्यात्रैव परार्थानुमानो. पयोगित्वादित्यास्तां तावत् ॥१८॥ इदानी वैधयंदृष्टान्तमुपदर्शयबाह
साध्ये निवर्तमाने तु साधनस्याप्यसंभवः। __ख्याप्यते यत्र दृष्टान्ते वैधयेणेति स स्मृतः ॥ १९ ॥
विसदृशो धर्मोऽस्येति विधर्मा, तद्भावो वैधर्म्यम् , तेन वैधम्र्येण दृष्टान्तः । कीदृश इस्याह- साध्ये गम्ये निवर्तमाने असंभवति, तुशब्दोऽवधारणार्थो भिन्नक्रमः, स च साधनस्यासंभव एवेत्यत्र द्रष्टव्यः। ख्याप्यते प्रतिपाद्यते यत्र क्वचित् दृष्टान्ते स वैधम्र्येण भवति, इति शद्वेन संबन्धस्मरणादिति ॥ १९॥
इदमत्रापि संबनाति-अस्यापि स्मर्यमाणे संबन्धे प्रयोगायोगादिति किमर्थ विस्मृतसंबन्धे एव प्रतिवादिनि दृष्टान्तः प्रयुज्यते नान्यदा, इति परवचनावकाशमाशङ्क्याह
अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः। व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥ २० ॥
अन्यदा हि स्मर्यमाणे वा संबन्धे प्रयुज्येत, अगृहीते वा। यद्यायः पक्षः, तमिर्णयः संबन्धनिर्णयः । तस्येत्यादि । शब्दस्य परोपदेशरूपतया कृत्वा शब्दजन्यज्ञानस्य स्वार्थानुमानत्वं भवतीत्याह-तत्रेत्यादि । तत्र स्वार्थानुमाने ॥ १८ ॥
विधर्मेति । पूर्ववदन् ॥ १९॥ अन्यदा हीति । संबन्धविस्मरणाभावे ॥२०॥
For Private And Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110