Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
टीका-टिप्पनसहितः
सामस्त्येन हेतोऱ्यावृत्तिरेवैकं लक्षणमिति निर्णीतम् , परार्थानुमानेऽपि तदेव प्रकाशनीयम् , वचनरचना तु क्वचित् कथंचित् प्रवर्तत इत्यभिप्रायवांस्तवैविध्यमाहहेतोर्द्विविधः प्रयोगः स्यादिति संबन्धः । कथमित्याह--तथैव साध्यसद्भावे एवोपपत्तिर्विद्यमानता, तया तथोपपत्त्या, यथा- अग्निरत्र, धूमस्य तथैवोपपत्तेरिति । भन्यथापि वा इत्यनेन अवयवे समुदायोपचारादन्यथानुपपत्तिं लक्षयति । अन्यथा साध्यन्यतिरेके अनुपपत्तिरविद्यमानतैव तया वा अन्यथानुपपत्या हेतोः प्रयोगः स्यात् , यथा- अग्निरत्र, धूमस्यान्यथानुपपत्तेरिति । एते च द्वे अप्येकस्मिन् साध्ये प्रयोक्तव्ये इति यो मन्येत, तच्छिष्यणार्थमाह-अन्यतरेणापि तथोपपत्तिप्रयोगेण भन्यथानुपपत्तिप्रयोगेण वा साध्यस्य साध्यप्रतिपिपादयिषितार्थस्य सिद्धिनिष्पत्तिः प्रतिपायप्रतीतावारोहणं भवेद् , इति यस्मात्, तस्मान द्वे अपि प्रयोक्तव्ये, प्रयोगद्वयेऽपि यस्माद् वचनरचना भिद्यते नार्थः, प्रयोगस्य च साध्यसाधनफलम् , तचे देकेनैव सिध्यति, द्वितीयप्रयोगः केवलं वक्तुरकौशलमाचक्षीत, नैरर्थक्यादित्यभिप्रायः ॥१४॥
___ अधुना दृष्टान्तलक्षणावसरः। स च द्वेधा साधम्र्येण वैधयेण च । तत्र साधHदृष्टान्तमधिकृत्याह
साध्यसाधनयोाप्तिर्यत्र निश्चीयतेतराम् ।
साधम्येण स दृष्टान्तः संबन्धस्मरणान्मतः ॥ १८ ॥ दृष्टयोरवलोकितयोः सामर्थ्यात् साध्यसाधनयोः अन्तःपरिनिरितिः अन्वयाद् व्यतिरेकाद्वा साध्यसाधनभावव्यवस्थितिनिबन्धना यस्मिन्निति दृष्टान्तः, समानो धर्मोऽस्येति सधर्मा तद्भावः साधम्यं तेन साधयेण । स किंविधो भवती त्याह- साध्यं जिज्ञासितार्थात्मकम् , साधनं तद्गमको हेतुः, तयोः साध्यसाधनयोाप्तिः, इदमनेन विना न भवति इत्येवंरूपा, यत्र कचिन्निश्चीयततरां अतिशयेन निर्णीयते स साधर्म्यदृष्टान्तः । यथा-- अग्निरत्र, धूमस्य तथैवोपपत्तेः महानसादिवद् इति । अयं चाविस्मृतप्रतिबन्धे प्रतिवादिनि न प्रयोक्तव्य इत्याह - संब न्धस्मरणात् इति । यबलोपे पञ्चमी, प्रागगृहीतविस्मृतसंबन्धस्मरणमधिकृत्य मतोऽभिप्रेतोऽयं नीतिविदाम् , नान्यथा। यदा हि प्रतिपायोऽद्यापि संबन्धं साध्याविनाभावित्वलक्षणं नावबुध्यते; तदा प्रमाणेन संबन्धो ग्राहणीयः, न दृष्टान्तमात्रेण, न हि सहदर्शनादेव क्वचित्सर्वदममुना विना न भवतीति सिध्यति, अतिप्रसङ्गात् ।
क्वचिदिति । प्रतिपाद्यविशेषे ॥ १७ ॥
साध्यसाधनयोरित्यादि । अन्वयेन व्यतिरेकेण वा साध्यसाधनभावस्य इदमस्य साध्यमिदमस्य साधनमिति संबन्धस्य व्यवस्था निबन्धनं यस्याः परिनिष्ठितेः सा तथोक्ता । सधर्मेति । धर्मादन् केवलात् इति बहुत्रीही धर्मशदादन् समासान्तः ।
For Private And Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110