Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org टीका-टिप्पनसहितः ४८ भ्यासिकस्य च पुनः पक्षधर्मिण्युपसंहरणमनर्थकतां प्राप्नुवत् केन निवार्येत । तदभावे हेतोः सामर्थ्य नावगम्यते तेन सार्थकमिति चेत्, पक्षादीनपि विरहय्य प्रतिपाद्यविशेषः प्रतिपादयितुं न पार्यते इति तेषामपि सार्थकता न दुरुपपादेति मुख्यतामाग्रहः । तस्माद्धेतुवत् पक्षादयोऽपि साधनम्, हेतोरपि क्वचित् प्रतिपाथे तदपेक्षतया निरपेक्षतासिद्धेरिति तदिदं सकलमाकलय्योक्तं तत्पक्षादिवचनात्मकमिति ॥ १३ ॥ > Acharya Shri Kailassagarsuri Gyanmandir तदेवमर्थतः पक्षादीन् प्रस्तुत्य तावत् पक्षलक्षणमाहसाध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ॥ १४ ॥ पच्यत इति पक्षः, व्यक्तीक्रियते इति भावः । किंभूत इत्याह- साध्यस्य अनुमेयस्य अभ्युपगमोऽङ्गीकरणम्, प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्यर्थः । किमभ्युपगममात्रम् ? नेत्याह- प्रत्यक्षाद्यनिराकृतः इति । प्रत्यक्षं साक्षात्कारि संवेदनम्, आदिशब्दादनुमानस्ववचनलोका गृह्यन्ते, तैरनिराकृतोऽबाधितः पक्ष इति संबन्धः । तद्यथा - सर्वमनेकान्तात्मकम् अस्ति सर्वज्ञः इत्यादि वा; अयं च केवलमेष्टव्यो न पुनः परार्थानुमानकाले वचनेनाभिधातव्यः इति यो मन्येत तं प्रत्याह- तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः । कुत इत्याह- हेतोः प्रानिरूपितस्य गोचरदीपक इति, निमित्तकारणहेतुपु सर्वासां प्रायो दर्शनम् इति वचनात् भावप्रधानत्वाश्च निर्देशस्य विषयसंदर्शकत्वादित्यर्थः । अयमन्त्राभिप्रायः - न हि सर्वत्र प्रतिवादिनः प्रक्रमादेव निर्णीतपक्षस्य कूर्चशोभापुर:सरं हेतुरुपन्यस्यते, अपि तु क्वचित् कथंचित् ॥ १४ ॥ " ततो यदाद्यापि प्रतिपाद्यः पक्षार्थं न जानीते, तदा अकाण्डे एव हेतावन्यमाने विषयव्यामोहाद् भ्रान्तिलक्षणो दोषः स्यादित्याह - " क्रियाविरोधादिति बाधकप्रमाणेन सत्त्वाख्यहेतोः समर्थनम् । पुनः पक्षधर्मिण्युपसंहरण मिति । कृतकच शब्द इत्यादिरूपम् । तदपेक्षतया पक्षाद्यपेक्षतया ॥ १३॥ For Private And Personal Use Only नहीत्यादि । अयमभिप्रायः - क्वापि निर्णतिपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, क्वाप्यनिशांतपक्षे । तत्र यद। निर्णीतपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, तदा निरर्थकत्वात् पक्षोपन्यासोऽस्माभिन क्रियते एव । द्वितीये तु पक्षे विषयदर्शकत्वेन सफलत्वादवश्यं कार्य एव : कूर्च शोभायाः पुरःतरं प्रथमम् यस्मिन् हेतानुपन्यस्ते कूर्च शोभा संपद्यते, तत्त्वतां वैलक्ष्याभाव:, सावप्रम्भता भवतीति यावत्, अथवा कूर्चशोभा पुरःसरं यत्रेति, अस्मिन् पक्षे अयमभिप्रायः यदा सम्यग्भूतं किंचिद् द्वित्वादिकं प्रतिपादयितुमारभ्यते तदा तत्प्रतिपादना दर्वागपि कूर्चशोमा सावष्टम्भता, श्मश्रूपरामर्शनं वा भवतीति ॥ ५४ ॥ ,

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110