Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ४६ टीका-टिप्पनसहितः तदेवं द्वयोरपि परार्थतां प्रतिपाद्य तत्स्वरूपमाहप्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥ १२ ॥ यद्वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिज्ञानगोचरकथनचतुरं तत् प्रत्यक्षमुच्यत इति संबन्धः । तच्च प्रत्यक्षरूपमेवोच्यमानं प्रत्यक्षं, विप्रतिपन्नं प्रति पुनरनुमानद्वारेणोच्यमानमनुमानमेवेति । चशब्देनानेकार्थत्वाद् दर्शयति- वचनं कुतः प्रत्यक्षम् इत्याह- प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वाद उपचारेणोच्यत इत्यर्थः ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir अनुमानमाह साध्याविनाभुवो देतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत्पक्षादिवचनात्मकम् ॥ १३ ॥ हिनोति गमयति अर्थमिति हेतु:, तस्य साध्याविनाभुवः प्रानिरूपितस्य यद्वचः प्रतिपादकं संदर्शकं तद् अनुमानप्रकाशहेतुत्वात् परार्थमनुमानम् । तत्कीदृशमित्याह - पक्षो वक्ष्यमाणलक्षणः स आदिर्येषां हेतुदृष्टान्तोपनयनिगमादीनां तानि तथा तेषां वचनानि प्रतिपादका ध्वनयः, तान्येवात्मा स्वरूपं यस्य तत् पक्षादिवचनात्मकम् । ननु च हेतुप्रतिपादकं वचः परार्थमनुमानमित्यभिधाय तत् पक्षादिवचनात्मकमिति वदतः पूर्वापरण्याहता वाचोयुक्तिः, नैतदस्ति, एवं मन्यते नैकः प्रकारः परार्थानुमानस्य किं तर्हि यथा परस्य सुखेन प्रमेयप्रतीतिर्भवति तथा यत्नतः प्रत्यायनीयः । तत्र दशावयवं साधनं प्रतिपादनोपायः । तद्यथा पक्षादयः पञ्च, तच्छ्रुद्ध्यश्च । तत्र यदा प्रतिपाद्यप्रक्रमादेव निर्णीतपक्षोऽविस्मृतदृष्टान्तः स्मार्थप्रतिबन्धग्राहकप्रमाणो व्युत्पन्नमतित्वात् शेषावयवाभ्युहन समर्थश्च भवति, यद्वा अत्यन्ताभ्यासेन परिकर्मितमतित्वात् तावतैव प्रस्तुतप्रमेयमवबुध्यते, तदा हेतुप्रतिपादनमेव क्रियते, शेषाभिधानस्य श्रोतृसंस्काराकारितया नैरर्थक्यादित्यादी हेतुप्रतिपादनं सूत्रकृता परार्थमनुमानमुक्तम् । यदा तु प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयः, सामान्यविशेषात्मकोऽर्थः प्रत्यक्ष प्रतिपन्नः परस्मै प्रतिपाद्यमानः परार्थप्रत्यक्षं भवति ॥ ११ ॥ तच्चेति । वचः । प्रत्यक्षरूपमिति । पश्य मृगो याति इति प्रत्यक्षरूपतया प्रतिपादकत्वाद्वचोऽपि तथेोच्यते ॥ १२ ॥ वाचोयुक्तिरिति । पश्यद्वाग्दिशो हरयुक्तिदण्डे ( सि० दे० ३-२-३२ ) इति षष्ठ्या अलुक्समासः । भविस्मृतेत्यादि । दृष्टान्तेन स्मार्यः स चासो प्रतिबन्ध। व्याप्तिश्व तस्य ग्राहकम्, तच्च तत्प्रमाणं च ततो न विस्मृतं तद् यस्य स तथा । परिकर्मितमतित्वादिति । परिकर्म संजातमस्या इति, तारकादेराकृतिगणत्वादितच्प्रत्ययः, ततः परिकर्मिता मतिर्यस्येति विग्रहः । अकाण्डे अप्रस्तावे । तत्सामर्थ्यामिति । पचादीनां सामर्थ्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110