Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायापार प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षेणाप्यनुमानेनेव प्रसिद्धार्थप्रकाशमात् स्वप्रतीतप्रमेयप्रत्यायकत्वात् परा. थत्वं प्रतिपाचप्रयोजनस्वं द्वयोरपि प्रत्यक्षानुमानयोः, तुल्यकारणत्वात् , नानुमानस्यैवैकस्येत्यभिप्रायः । इह पाश्रूयमाणत्वात् तदर्थगमनाच अपीवशब्दो लुप्तनिर्दिष्टी दष्टग्यौ । प्रत्यक्षप्रतीतार्थप्रत्यायनं च प्रतिजानानस्यायमभिप्रायः- यत् परो मन्यते, नैतद् गोचरं परेभ्यः प्रतिपादयितुं पार्यत इति । तदयुक्तम् , निर्विकल्पकाध्यक्षा. पोहेन व्यवसायरूपस्य प्रत्यक्षस्य प्रागेव साधितत्वात् , तद्गोचरस्य कथंचिद् विकल्पगम्यत्वेन शब्दप्रतिपाद्यत्वात् । तद्यथा अनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानम् , तथा प्रत्यक्षप्रतीतोऽपि, परार्थं प्रत्यक्षम् , परप्रत्यायनस्थ तुल्यत्वाद् , वचनव्यापारस्यैव भेदात्। तथा हि-अनुमानप्रतीतं प्रत्याययनैवं वचनयति- अग्निरत्र, धूमात् , यत्र यत्र धूमस्तत्र तत्राग्निः, यथा महानसादौ, वैध. म्येण वा, अग्न्यभावे न क्वचिद् धूमः, यथा जलाशयादौ, तथा धूमोऽयम् , तस्माद् धमादग्निरत्रेति । अव्युत्पन्न विस्मृतसंबन्धयोस्तथैव प्रतिपादयितुं शक्यत्वात् , स्मर्यमाणे संबन्धे पुनरेवम् - अग्निरत्र धूमोपपत्तेः । वैधम्र्येण-अग्निरत्र, अन्यथा धूमानुपपत्तेः। प्रत्यक्षप्रतीतं पुनदर्शयन्नतावद्वक्ति- पश्य राजा गच्छति, ततश्च वचनाद्विविधादपि समग्रसामग्रीकस्य प्रतिपाद्यस्यानुमेयप्रत्यक्षार्थविषया यतः प्रतीतिरुल्लसति, अतो द्वयोरपि परार्थतेत्याह- परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीति प्रति प्रतिपादकस्थप्रत्यक्षानुमाननिर्णातार्थप्रकाशनकारणत्वादिस्यर्थः । एतेन पूर्वकारिकोतोपचारकारणं च लक्षयति । यच्चोक्तम् - न शब्दात् परस्य प्रत्यक्षोत्पत्तिः, तस्य विकल्पजनकत्वात् , प्रत्यक्षस्य स्वलक्षणविषयत्वेन निर्विकल्पकलात् । तदयुक्तम् , सामान्यविशेषात्मकार्थविषयस्य निर्णयरूपस्य तस्य कथंचिदेकविषयता शब्दोत्पा. द्यत्वाविरोधात् , एवंविधस्य च प्रागेव समर्थनात् । चक्षुरादिसामग्रीतस्तदुत्पद्यते न शब्दादिति चेत् । अनुमानमपि प्रत्यक्षादिनिश्चिताद् हेतोरविस्मृतसंबन्धस्य प्रमातुरुल्लसति, न शब्दात् , अतस्तस्यापि परार्थता विशीत । समर्थहेतुकथनात् तत्र वचनस्य परार्थतेति चेत् , अत्रापि दर्शनयोग्यार्थप्रतिपादनादिति ब्रमः । तन्न प्रत्यक्षपरोक्षयोः पारायं प्रति विशेषोपलब्धिरिति मुच्यतां पक्षपातः ॥ ११ ॥ प्रतिपादकस्थेत्यादि । प्रतिपादकस्थं प्रत्यक्षानुमाननिर्णीतार्थस्य प्रकाश्यतेऽर्थः परे यो नेनैति प्रकाशनं वचनं कारणं यस्य परस्य, तस्य भावस्तत्त्वं तस्मात् । एतेनेति । परप्रतीति प्रति वचनस्योपायताप्रदर्शनेन पूर्वकारिकोक्तेति वाक्यं तदुपचारतः इति । तस्यति । प्रत्यक्षस्य । एकविषयतयेति । शब्देन सहेति शेषः, अयमभिप्रायः--सामान्यविशेषात्मकं वस्तु शब्दानां गोचरः, प्रत्यक्षमपि कथंचित सामान्यविशेषात्मकवस्तुविषयम , मन: For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110