Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ टीका-टिप्पनसहितः राणि, तेषां घट्टनं विचालकं निराकारकम् , सर्वजनापकारिकुमतविध्वंसकमित्यर्थः। ईदृशादेव शास्त्राज्जातं शाब्दं प्रमाणम् , नान्येभ्यः, विप्रलम्भकत्वात्तेषामिति ॥९॥ ____ अधुना परार्थानुमानलक्षणं वक्तव्यम् , तच्च प्रत्यक्षेऽपि पश्यन् एकयोगक्षेमस्वात् सामान्येनाह - स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थ मानमाख्यातं वाक्यं तदुपचारतः ॥१०॥ अत्र परार्थ मानमिति लक्ष्यम् , स्वनिश्चयवदित्यादि लक्षणम् , स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः, तद्वदन्येषां प्रतिपाद्यानां निश्चयोत्पादनं प्रमेयपरिच्छेदज्ञानप्रादुर्भावनम् , यथा आत्मनोऽर्थनिर्णयस्तथा परेषां निर्णयजननमित्यर्थः । बुधैविद्वद्भिः। परस्मै अर्थः प्रयोजनं येन तत् परार्थम् , मीयतेऽनेनेति मानम् , आख्यातं कथितम् । ननु च यदि निश्चयोत्पादनं परार्थमानम् , तथा ज्ञानमपि परप्रत्यायनाय व्याप्रियमाणं परार्थ प्राप्नोतीत्याह,-वाक्यं परार्थ, न ज्ञानम् , तस्यैवानन्तर्येण व्यापारात् , परप्रयोजनमात्रत्वाच्च, इतरस्य तु व्यवहितत्वात् , स्वपरोपकारित्वाच्च । कथं वचनमज्ञानरूपं प्रमाणमित्याह- तदुपचारतः तस्य ज्ञानस्योपचारोऽतपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम् । तत इदमुक्तं भवति-प्रतिपाद्यगतमुत्पश्यमानं यज्ज्ञानं तदव्यवहितकारणत्वाद् वचनमप्युपचारेण प्रमाणमित्युच्यते । तत्रानुमानस्य पारायं परैरभ्युपगतमेव प्रत्यक्षस्य न प्रतिपद्यन्ते किलेदं शब्दप्रवेशशून्यं स्वलक्षणग्राहीति नैतद्गोचरः परेभ्यः प्रतिपादयितुं पार्यते । न च शब्दात् परस्य स्वलक्षणग्रहणदक्षं प्रत्यक्षमुन्मक्ष्यति, शब्दस्य विकल्पोत्पादितत्वेन परस्यापि विकल्पोत्पादकत्वात् । तदुक्तम्विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि ॥ इति ॥ १०॥ निर्विकल्पकं च प्रत्यक्षम्, अतो न शब्दजन्यमित्यतोऽनुमानं दृष्टान्तीकृत्य प्रत्यक्षस्यापि परार्थतां साधयितुमाह च रूपम् । कापथा इति । कुशब्दस्य पथि शब्दे 'पथ्यक्षेषदर्थे' इत्याकारः। ॥९॥ परप्रयोजनमात्रत्वादिति । परस्य प्रयोजन परग्रयोजनम् , तदेव परप्रयोजनमात्रम् , मात्र कात्स्न्येऽत्रधारणे इति वचनात् , अवधारणार्थोऽत्र मात्रध्वनिः । यद्यपि कस्यचित्तथाविधाभ्यासाद् वचनमुच्चारयतः स्वयमप्यर्थप्रतिपत्तिर्वाक्यस्य प्रयोजनत्वम् , तथाप्यल्पत्वानह विवक्षितमिति । व्यवहितत्वादिति । ज्ञानानन्तरं हि विवक्षा, स्थानकरणाभिघातादिना शब्दोत्पत्तौ परसंताने ज्ञानोत्पादादिति । विकल्पयोनय इति । विकल्पो योनिः कारणं येषां तथा ॥ १० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110