Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः यस्य तत् परमार्थाभिधायि, विशिष्टार्थदर्शकमित्यर्थः। ततः तस्वग्राहितयोत्पन्नम् प्रकृतवाक्यप्रतिपाद्यादानशीलतया लब्धारमसत्ताक यम्मानं तच्छाब्दमिति प्रकीर्तितम् उपवर्णितं पूर्वाचारिति संबन्धः। तत्र दृष्टेष्टान्याहताद् इत्यनेन कुतीर्थिकबरसा लौकिकविप्रतारकोक्तीनां च शाब्दतां निरस्यति, प्रमाणबाधितत्वात् । बाक्यात, इत्यमुना तु वाक्यस्यैव नियतार्थदर्शकत्वात् परमार्थाभिधायितेति दर्शयन् पदाच्छान्दाभावमाह । परमार्थाभिधायिनः इत्यनेन ज्वरहरतक्षकचूडारनालंकारोप. देशादिवचनप्रभवज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे । तस्वग्राहितयोत्पन्नम् इत्यमुना त्वेवंभूतादपि वाक्यात् श्रोतृदोषाद् विपरीतार्थग्रहणचतुरतया प्रादु. भूतस्य शाब्दत्वं वारयति । मानम् इत्यनेन अन्तर्भावितप्रोपसर्गार्थेन शाब्दे परस्या. प्रामाण्यबुद्धिं तिरस्कुरुते, तदप्रामाण्ये परार्थानुमानप्रलयप्रसङ्गात् , तस्य वचनरूप. स्वात् । त्र्यवयवहेतुसूचकत्वेनोपचारतस्तस्य प्रामाण्यं न तस्वत इति चेत् , न, भप्रामाण्यस्य सूचकस्वायोगात् । ननु हेतुप्रतिपादने यदि तत् प्रमाणम्, ततो हेतुसमर्थकप्रमाणान्तरप्रतीक्षणं न विशीर्येत, तेनैव निर्णीतस्वरूपत्वात्तस्य प्रमाणसिद्धे पुनः प्रमाणान्तरवैयर्थ्यात् । नैतदस्ति, भवत्परिकल्पिताध्यक्षस्याप्रामाण्यप्रसजात् , तहर्शितेऽर्थे विकल्पप्रतीक्षणात्तस्यैव प्रामाण्यमासज्येत। तद्गृहीतमेवार्थमसावभिलापयतीति चेत् , शब्दप्रतिपादितं हेतुं प्रमाणान्तरं समर्थयते इति समानो न्यायः ॥ ८॥ शाब्दं च द्विधा भवति- लौकिक शास्त्रजं चेति । तत्रेदं द्वयोरपि साधारण लक्षणं प्रतिपादितम् , समर्थनं पुनरविप्रतारकवचनप्रभवस्येहादिवाक्यप्रस्ताव एव लौकिकस्य विहितम् , शास्त्रजस्य तु विधातम्यमिति यादृशः शास्त्रात्तजातं प्रमाण. तामनुभवति तदर्शयति - कृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वेति । वाशब्दः समुच्चये, ततोऽयमर्थः- पुरुषोपयोगी शक्याजुष्ठानश्च योऽर्थः स परमोऽकृत्रिम इत्युच्यते, तत्र पुरुषोपयोगी इत्यनेन शक्यानुष्ठानानामपि शवशरीरोद्वर्तनादीनां पुरुषानुपयोगिनां निरासः, शक्यानुष्ठान इत्यनेन तु पुरुषोपयोगिनामपि ज्वरहरशेषशिखारत्नालंकारादीनां प्रतिक्षेपः। विकरूपार्थो वाशब्दः, तदयमर्थःपुरुषोपयोगी शक्यानुष्ठानो वा अर्थोऽकृत्रिम इत्युच्यते। अशक्यानुष्ठानस्य तक्षकालंकारादेः परमार्थतः पुरुषानुपयोगित्वात् । पुरुषानुपयोगिनश्च मृतकोद्वर्तनादेस्तत्त्वतः पुरुषधर्मवदि. विधातुमशक्यत्वादिति । पदाच्छाब्दाभावमाहेति । प्रवृत्तिविषयव्यवस्थापकं हि प्रमाणम्, न च पदेभ्यो यः पदार्थप्रत्ययस्तेन नियतो विषय उपस्थाप्यते, येन घटार्थी कुतश्चिभिवृत्त्य क्वचित् प्रवर्तते; नियतदेशे हि वस्तुनि पुमान् प्रवर्तते, न च केनचिद्देशेन विशिष्टो घटो घटशब्देनोपदर्शितः, नन्न पदप्रभवप्रत्ययस्य शाब्दप्रमाणत्वम् । तदिति शाब्दम् । तेन शम्देन । तस्य हेतोः ॥ ८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110