Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतार: स्वप्नावस्थायां तत्सद्भावेऽप्यलीकार्थतासिद्धेः । बाधकप्रत्ययोपनिपातात् तस्यासत्यार्थतेति चेत्, न, तस्य स्वगोचरपर्यवसितत्वेन बाधकत्वायोगात् । अन्यथा नीलमाददाना देवदत्तबुद्धिः प्राक्प्रवृत्तपीतबुद्धर्बाधिकापद्येत, सर्वप्रतिभासस्य बाधकामावसिद्धेश्च समानता । तस्माद् भ्रान्ताभ्रान्तज्ञानभ्रान्तिरियं भवताम् , विवेकाभावेन सर्वस्यालीकार्थत्वादिति ॥६॥ अन्नाहसकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम। प्रमाणं स्वान्यनिश्वायि द्वयसिद्धौ प्रसिध्यति ॥ ७ ॥ एवं मन्यते- योऽपि समस्तसंवेदनस्य भ्रान्ततां प्रतिजानीते, तेनापि सत्साध. कस्याभ्रान्तताभ्युपगन्तव्या, तद्भ्रान्तत्वे तत्प्रतिपादितार्थालीकत्वेन सकलज्ञानाभ्रान्तताप्रसङ्गात् , अन्यथा तद्धान्तत्वायोगात्। एवं च तजातीयमन्यदप्यभ्रान्तं स्यात् , ततश्च सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपरप्रकाशकं तत्प्रमाणमिति संबन्धः । तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ प्रसिद्धयति निष्पद्यते, अन्यथा प्रमेयाभावे प्रमाणाभावात् । तस्मात् प्रमाणमुररीकुर्वाणेनार्थोऽप्यभ्युपगन्तव्य इत्य. भिप्राय इति ॥ ७ ॥ तदेवं स्वार्थानुमानलक्षणं प्रतिपाद्य तद्वतां भ्रान्तताविप्रतिपत्तिं च निराकृत्या. धुनाप्रतिपादितपरार्थानुमानलक्षण एवाल्पवक्तव्यत्वात् तावच्छाब्दलक्षणमाह दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मान शाब्दं प्रकीर्तितम् ॥८॥ अत्रापि शाब्दम् इति लक्ष्यम्, अनूद्यत्वात् । दृष्टेष्टाव्याहताद् इत्यादि लक्षणम् , विधेयत्वात् । दृष्टेन प्रमाणालोकितेन इष्टः प्रतिपादयिषितोऽव्याहतो अनिराकृतः सामर्थ्यादर्थो यस्मिन् वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधितमिति यावत्, तस्मात् । परमोऽकृतिमः पुरुषोपयोगी शक्यानुष्ठानो वार्थो वाच्यस्तमभिधातुं शीलं गाहनाद्यर्थक्रियापरिग्रहः । तस्येति । स्वप्नन्नानस्य । तस्य बाधकप्रत्ययस्य । समानतेति। न कश्चित्प्रतिभासो बाध्यो नापि च बाधकः । विवेकाभावेनेति । विवेको भ्रान्तात् स्वप्नज्ञानादेरभ्रान्तस्य पार्थक्येन व्यवस्थापनम् ॥ ६ ॥ योऽपीति । योगाचारादिः । भ्रान्ततामिति । सर्वमालम्बने भ्रान्तम् इति वचनात् तत्साधकस्य समस्तसंवेदनभ्रान्ततासाधकस्य, निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् , स्वप्मप्रत्ययवत् , इत्यनुमानस्य । तद्भ्रान्तत्वे निरालम्बनतासाधकानुमानालीकत्वे ॥ ७ ॥ रहेनेत्यादि । अयं भित्राधिकरणस्त्रिपदो बहुव्रीहिः, यदि वा इष्टोऽव्याहतोऽर्थो तत्र तदिष्टाव्याहत वाक्यम् , तदनु दृष्टेन प्रमाणनिर्णीतेन इष्टाव्याहतमिति तत्पुरुषः। परमोऽ. न्याया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110