Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारा विचारं क्षमते, अवयवविरहे अवयविस्वायोगात् , तेषु च तद्वृत्तिविकल्पानुपपत्तेः। तथा हि- तेषु असावेकदेशेन वर्तते, सामस्त्येम वा। न तावदेकदेशेन, तस्य स्वयं निरवयवत्वात्। अवयववृत्तिनिमित्तमंशान्तरकल्पने तद्वृत्तावप्यंशान्तरकल्पनप्रसङ्गः, तथा चानवस्था । नापि सामस्त्येन, प्रत्यवयवं परिसमाप्तरूपतयावयविबहुत्वप्रसङ्गात् । भेदपक्षे दोषोऽमम् , अभेदपक्षे नास्तीति चेत् , न, तत्राप्यवयवमात्रम् भवयविमानं वा स्यात् , इतरेतराव्यतिरिक्तत्वात् , इतरेतरस्वरूपवत् । किं च समस्तावयवण्यापिनोऽवयविनोऽभ्युपगमे पटादेरेकदेशरागकम्पदर्शनादिषु सकलरागकम्पदर्शनादीनि दुर्निवाराणि स्युः, एकस्य रागारागादिविरुद्धधर्माध्यासायोगादिति । नाप्यवयवरूपोऽर्थो विचारगोचरचारी, करचरणशिरोग्रीवादीनामवयवानां स्वावयवापेक्षया अवयविरूपतया तद्दषणेनैवापास्तस्वात् । परमाणूनां निरंशतया अवयवत्वमुपपद्यत इति चेत्, न, तेषामपि दिक्षट्कसंबन्धेन षडंशतापत्तेः, अन्यथावस्थानाभावात् , ततश्चार्थविरहात्तदुन्मुखो मायाकारोऽलीकः, तदलीकतायां ग्राहकाकारोऽपि नावस्थानमाबध्नाति, ग्राह्याभावे ग्राहकायोगात् , तदपेक्षयैव तत्स्वरूपस्थितिः, ग्राह्यग्राहकाकारविलये च बोधाकारोऽवशिष्यते, तस्य सर्वत्राव्यभिचरितरूपत्वात् , तस्मात् स एव पारमार्थिक इति | अत्र प्रतिविधीयते-यदवादि संवेदनमद्वयं पारमार्थिकम् , मायग्राहकाकारप्रवृत्तं पुनरतात्त्विकमिति, तदयुक्तम् , प्रमाणाभावात् । तथा हि-बहिरन्तश्चानेकाकारतया हर्षविषादादिभिः स्थिरस्थूरताद्यनेकधर्मपरिकरितार्थग्रहणपरिणामैश्च विवर्तमानं संवेदममुपलभ्यते, न पुनर्वेद्यवेदकाकारविविक्तं याहग् भवद्भिरुपवर्ण्यते ज्ञानं तादृशं कस्यचित् कदाचन प्रतीतिगोचरचारितामनुभवति, अद्वयप्रतिभासस्य स्क्मदशायामप्यननुभूतेः । न च तत्त्वचिन्तका अपि प्रमाणमन्तरेण स्वाकृतं प्रतिष्ठापयन्तः प्रेक्षावतामवधेयवचना भवन्ति, अन्यथैकमवेतनमव्ययमपि ब्रह्मानेक चेतनं क्षणभङ्गुरताक्रान्तमविद्यातः प्रथत इति ब्रुवाणो. प्रनिराकार्यः स्यात् । यदपि बहिरर्थनिराकरणधिया अवयव्यवयवद्वारेण दूषणमदायि, तदपि बहिरन्तः प्रथमानसकलासुमत्प्रतीतप्रतिभासमुदरनिर्दलितशरीरतया भक्तमध्यनिष्ठयूतदर्शिनः पुरतो विप्रतारणप्रवणकुहिनीशपथप्रायमिति न विद्वजनमनांसि रअयति, प्रत्यक्षप्रतिभासापह्नवे तन्मूलकत्वात् कुयुकिविकल्पामामुत्थाना. भावात् । किं च संवेदनस्यापि सितासिताद्यनेकाकारेष्वेकस्य वर्तने भेदाभेदसामस्त्यैकदेशादियोचं समानमेवेति न दूषणम् । अनेकाकारविवर्तस्यालीकत्वास तेन सह संवेदनस्य पारमार्थिकस्य भेदाभेदादिचिन्तेति चेत्, ननु एवामितरेतराश्रयं दुरुत्तरदिक्षट्केत्यादि । षड्दिसंबन्धान्यथानुपपत्त्या परमाणूनां सावयवतेत्यभिप्रायः। अवधेय. बचना आदेयाचसः । ब्रह्म तत्त्वरूपम् । संवेदनस्यापीत्यादि । एकस्यति । चित्रज्ञानस्य, झाने झेकस्मिन्नैव नीलपीतादयो बहव आकाराः प्रतिभान्ति, ततस्तेषु नीलपीतायाकारेषु कथ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110