Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ टीका-टिप्पनसहितः लक्षणे दृष्टान्ते साध्यविकलतामाविर्भावयितुं न पारयति, स्वयमेव समक्षस्याभ्रान्ततयाभ्युपगमात् । शून्यवादिनः समस्तापलापित्वात् प्रमाणप्रमेयव्यवहारं प्रत्य. योग्यतैवेति न तमधिकृत्य स्वसाधनदोषाः परिहर्तव्याः, स्ववचनबाधितप्रतिज्ञत्वेन तद्वादोत्थानाभावात् । तथा हि-सर्वाभावप्रतिपादकं वचोऽस्ति, नास्ति वा । यद्यस्ति तर्हि प्रतिज्ञाहानिः । अथ नास्ति, सकलभावसिद्धिः, प्रतिषेधकाभावात् ॥ ५॥ ज्ञानवादी पुनर्वेद्यवेदकाकारविकलं सकलविकल्पगोचरातीतं निर्विकल्पक विविक्तपारमार्थिकस्वसंवेदनवेद्यं संवेदनमागूर्यानादिकालालीनवासनाबलप्रभावित ग्राह्यग्राहकाकारकलुषितं बहिष्प्रथमानं निखिलमपि ज्ञान विपर्यस्ततया प्रतिजानानः समक्षलक्षणस्य प्रकृतदृष्टान्तस्य साध्यशून्यतामभिदध्यात् , अतस्तन्मतविकु. हनार्थमाह न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद्विरुद्धं वचनं यतः ॥ ६॥ यगवतश्चेतसि विवर्तते, यदुत न केवलमनुमानं भ्रान्तम् , किं तर्हि यद्भवद्भिदृष्टान्ततयोपात्तं प्रत्यक्षं तदपि भ्रान्तमेव, सर्वमालम्बने भ्रान्तमिति वचनात् । तदेता, कुत इत्याह-प्रमाणत्वविनिश्चयादिति । प्रमाणभावनिर्णयादित्यर्थः। ननु च प्रमाणतामभ्रान्ततान्यथानुपपन्नां यदि परः प्रतिपद्येत, ततस्तामभ्युपगच्छन् कथं भ्रान्तताविप्रतिपत्तिं विदध्यादिति पार्श्वस्थितवचनावकाशमाशङ्कय, भ्रान्तताप्रमाणतयोर्विरोधसाधनेन ततः प्रमाणतां व्यावानन्यशरणतया प्रतिज्ञाताभ्रान्तताकान्तां तां दर्शयन्नाह- भ्रान्तमित्यादि । भ्रान्तं विपर्यस्तं अथ च प्रमाणं ग्राह्यपरिच्छेदहेतुरित्येतद्वचनमेयंविधार्थप्रत्यायको ध्वनिर्विरुद्धं, पूर्वापरव्याहतार्थगर्भकत्वात् । ननु च नैवास्य विरुद्धता, तथा हि- अविदितपरमार्थव्यावहारिकाभिप्रायेण लोकसंवृति घटयन्तो वयं दृढतरवासनाप्रबोधसंपादितसत्ताकयोः प्रत्यक्षानुमानयोः प्रमाणतामाचक्ष्महे, तदभिप्रायेण दर्शितार्थप्रापकत्वेन तयोरविसंवादकत्वात् , शिथिलवासनौन्मुख्यनिर्मितजन्मकयोः पुनरप्रमाणताम् , तदाकृतेनैव दर्शितेऽर्थे विप्रलम्भनादिति, भ्रान्ततां पुनस्तस्वचिन्तकाभिप्रायेण सकलस्य बहिरुपप्लवमानस्य ग्राह्यग्राहकाकारकालुष्यदूषितस्य प्रतिभासस्य पारमार्थिकाद्वयसंवेदनविपर्यस्तरूपत्वादाभदध्महे, बहिः प्रतिभासस्य तद्ग्राह्यार्थविचाराक्षमतयोपप्लुतरूपत्वात् । तथा हिअर्थोऽवयविरूपः अवयवरूपो वा स्यात् , गत्यन्तराभावात् । न तावदवयविरूपो __आगूर्येति प्रतिज्ञाय। ततो भ्रान्ततायाम् । तां प्रमाणताम् । संवृतिमिति कल्पनाम् । यदाहुः अनिरूपिततत्त्वार्था प्रतीतिः संवृतिर्मता । औन्मुख्यमिति आभिमुख्यम् । तदाकृतेन व्यावहारिकाभिप्रायेण । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110