Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः हि शब्दस्यानित्यत्वे साध्ये काककापादेरपि गमकस्वप्रसक्तेः । तत्रापि लोकादेधर्मिणः कल्पयितुं शक्यत्वात्। तथा अन्वयविकलेऽपि अनित्यः शब्दः, श्रावणत्वात्, इत्ययं सम्यग्हेतुतया समर्थयितं शक्य इति । नान्वयोऽपि हेतोर्लक्षणम् । तथा हितावकाकूतेनैव सकलं सत्त्वमनित्यतया क्रोडीकृतम्, इति भावधर्मः श्रावणत्वं कथमनित्यतां विहाय विपक्षे वर्तितुमुत्सहेत, तद्विकल्पस्य निःस्वभावतापत्तः, अनित्यताविनिर्मुक्तस्य सवस्यासंभवात् । एतेन सारमकं जीवच्छरीरम् , प्राणादिमत्वात् , निरात्मकत्वे तद्वैकल्यप्रसङ्गात् , घटादिवत् . इत्ययमपि गमको व्याख्यातः, साध्यार्थान्यथानुपपनत्वस्यात्रापि सद्भावात् । पक्षधर्मत्वान्वययोस्त्वलक्षणतया प्रतिपादनात् । तथा कार्यस्वभावानुपलब्धिरूपलिङ्गन यनियमोऽपि किल तादात्म्यतद. त्पत्तिलक्षणसंबन्धास्तित्वमेतेवेवेति यः क्रियते, सोप्ययुक्तः, प्रकृतसंबन्धद्वयवि. कलस्थापि रूपादे रसादिगमकत्वदर्शनात् । मा भूत्तस्य तादात्म्यंतदुत्पत्तिभ्यां गमकत्वम, समवायाद्भविष्यति; तथापि नान्यथानुपपन्नत्वमेव हेतोर्लक्षणमिति यदि वैशेषिको मन्येत. सोऽन्यथा निर्लोठनीयः। स हि विकल्पतः पर्यनुयोज्यः, समवा. यिभ्यः समवायोऽभिन्नो भिन्नो वा । यद्यभिन्नः, समवायिन एव तर्हि, न समवायः; तदव्यतिरिक्तत्वात् , तत्स्वरूपवत्। भिन्नश्चेत् , स कथं तेषु वर्तेत सामस्त्येन आहोस्विदेकदेशेन । तद्यदि सामत्येन, तदयुक्तम् , समवायबहुत्वप्रसङ्गात् , प्रतिसमवायि तस्य परिसमाप्ततापाप्तेः । अर्थकदेशेन, तदप्यचार, सांशताप्रसङ्गोन निरवयवत्वक्षतेः, स्वांशवर्तनेऽपि सामस्त्यैकदेशचोद्यावताराच्च। तत्रापि सामस्त्यपक्षे बहुस्त्वं तदवस्थमेव । एकदेशपक्षे त्वंशान्तरप्रसङ्गेनानवस्था । तन्न समवायबलाद् गमकतां प्रत्याशा o m .. . साध्यसजातीयं च शेषः, तद् यस्यास्ति तच्छेषवत् । सामान्यतश्च विपक्षेऽदृष्टम् , चशब्दात् प्रत्यक्षागमाविरुद्धं अस प्रतिपक्षं चेति । एवं च पञ्चरूपम् , अन्वयव्यतिरेकयोरन्यतररूपाभावे च तत्तपमनमानमिति । अथवा पूर्ववन्नाम यत्र कारणेन कार्यमनुमीयते, यथामेघोन्नत्या भविष्यति वृष्टिरिति । प्रयोगस्तु-अमी मेघा वृष्टिमन्तः, गम्भीरगर्जितत्वेऽचिरप्रभावत्वे च सत्युन्नतत्वान, ये एवं ते वृष्टिमन्तः; यथा वृष्टिमत्पूर्वमेघाः, तथा चामी, त. स्मात्तथा । शेषवन्नाम यत्र कार्यग कारणमनुमीयते, यथा नदीपूरदर्शनाद् वृष्टिः । प्रयोगस्तु उपरिश्रृष्टिमद्देशसंबन्धिनी नदी, शीघ्रतरस्रोतस्वे फलफेनकाष्ठादिवहनत्वे च सति पूर्णत्वात, तदन्यनदीवत् । सामान्यनोदृष्टं नाम अकार्यकारणभूतेन यत्राविनाभाविना विशेषणेन विशेप्यमाणो धर्मो गम्यते, यथा-बलाकया सलिलमिति । प्रयोगोऽयम्-बलाकाजहत्रुत्तिप्रदेशो जलवान् , बलाकावत्त्वात. संग्रतिपन्नप्रदेशवदिति । तत्पुत्रादीनामिति । स श्यामः, तत्पु. त्रवान, परिदृश्यमानपुत्रवदिति । आदीति। आदिशब्दात् निरुपाधिसंबन्धबोधसमुत्थसाध्य. प्रमामाधन मनुमान मित्यादिग्रहः । आदिशब्दात् पक्कान्येतानि आम्रफलानि, एकशाखाप्रभवत्वात् , उपभुज्यमानाम्रफलबादित्यादिपरिग्रहः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110