Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः तथान्ये अस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्-इति, तथा, पूर्ववत् शेषवत् सामान्यतोदृष्टमित्यादि। तद्वालप्रलपितप्रायमित्यवगन्तव्यम् ,. सर्वत्र साध्याविनाभावित्वस्यैव गमकत्वात् तद्रहितस्य तु त्रैलक्षण्यलक्षितस्याप्यगमकरवात् , इतरथा तत्पुत्रत्वादीनामपि गमकत्वप्रसङ्गात्, नियमवत् । त्रैलक्षण्यं लक्षणं न यस्किंचित् , तेनायमप्रसङ्ग इति चेन्न, नियमेन साध्याविनाभावित्वस्यैवोद्दीपनात् , तञ्चेदस्ति किं त्रैलक्षण्यापेक्षया, तस्यैव गमकत्वात्। तथा हि-जलचन्द्रानभश्चन्द्रम् , कृत्तिकोदयाच्छकटोदयम् । पुष्पितैकचूतात्पुष्पिताशेषचूतान् , चन्द्रोदयात्कुमुदाकरप्रबोधम् , वृक्षाच्छायामित्यादि पक्षधर्मत्वविरहेऽप्यनुमिमीमहे । कालादिकस्तत्र धर्मी समस्येव, तत्र पक्षधर्मता लिङ्गस्य गृह्यते इति चेन्न, अतिप्रसङ्गात्। एवं वृक्षोऽयम् , शिंशपात्वात् । अमिरत्र, धूमात् । अन्य इति वैशेषिकाः। आस्पदम् कार्य कारणं संयोगि समवायि विरोधि चेति । लैङ्गिकमिति । लिङ्गाजातं लैङ्गिकम् , लिङ्गदर्शनाद यदव्यभिचारित्वादिविशेषणं ज्ञानं तद् यतः परामर्शज्ञानोपलक्षितात् कारकसमूहाद् भवति तल्लैङ्गिकमिति यावत् । तथा हि-कार्य कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं कारणस्य गमकम् । यथा-विशिष्टनदीपूरोपलम्भादुपरि वृष्टो मेघ इति । तथा हि-प्रचुरतरफलफेनपर्णकाष्ठादिवहनविशिष्टस्य नदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् तदुपलम्भे सति युक्तमनुमानम् अयं नदीपूरी वृष्टिकार्यः, विशिष्टनदीपूरत्वात् , पूर्वोपलब्धविशिष्टनदीपूरवत् , पूर उभयतटव्यापकोदकसंयोगः । कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धरुपलभ्यमानं कार्यस्य लिङ्गम् । यथा विशिष्टमेघोन्नतिर्वर्षकर्मण इति। अथ कारणस्यावश्यं कार्यजनकत्वेनानुपलम्भात् , कार्याणां चानियतात् कारणादुत्पत्तेर्व्यभिचारः । तथा हि-मेघोन्नतिसद्भावेऽप्येकदा वृष्टिर्न दृष्टा, कार्य चानियतात् कारणादुत्पद्यमानं दृष्टम् । यथा वृश्चिकाद वृश्चिको जायते गोमयात् सपाच्चेति, तत्कथं कार्यात् कारणविशेषप्रतिपत्तिः कारणाच्च कार्यविशेषस्येति ? नैतदेवम् , कारणविशेषस्य कार्यविशेषगमकत्वम्, कार्यविशेषस्य तु कारणविशेषगमकत्वमित्यभ्युपगमात् । यस्तु विद्यमानमपि विशेषं नावबुध्यते, तत्र तस्यापराधो नानुमानस्येति । तथा धूमोऽग्नेः संयोगी। अथ संयोगस्योभयनिष्ठत्वाविशेष कथमेकं नियमेन हेतुरपरं च साध्यमिति व्यवस्था ? सत्यमिदम् , अविनाभावेऽपि समानमुत्पश्यामः । तथा हि - अविनामावस्योभयनिष्ठत्वात् कथमेषा व्यवस्थेति । अथ यस्योपलम्भादनुमेये प्रवृत्तिस्तदेव साधनं नान्यदिति चेत् , संयोगित्वेऽपि समानमेतत। समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति । विरोधी च यथा--अहिर्विस्फूजनविशिष्टो नकुलादेर्लिङ्गम् , वहिर्वा शीताभावस्येति । नयायिकाश्चाहुः-पूर्ववच्छेषवत्सामान्यतोऽदृष्टभित्यनेन सूत्रावयवेन तत्पूर्वकं निविधमनुमान पूर्ववच्छेषवत्सामान्यतोऽदृष्टं चेति सकलं सत्रं लक्षयति । तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति; अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति । अथवा सूत्रावयवेनैव प्रकारान्तरेण त्रिविधं पदं व्याचष्टे, पूर्ववत् शेषवत् सामान्यतोऽदृष्टमिति । पूर्व साध्यं तद्व्याप्त्या यस्यास्ति तत्पूर्ववत् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110