Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः आप्तोपशमनुल्लध्यमस्टेशविरोधकम् ।
तस्वोपदेशकरसार्वे शालं कापथघट्टनम् ॥९॥ शास्ति शिक्षयति जीवाजीवादि तत्वं ग्राहयति, शिष्यतेऽनेनेति वा शासम् । तत् किंभूतामिति तद्विशेषणान्याह- आप्तः प्रक्षीणाशेषरागादिदोषगणः, सेन उपज्ञम् आदावुपलब्धम् । अनेनापौरुषेयापोहमाह, तस्य प्रमाणबाधितस्वात् ; पुरुषम्या. पाराभावे वचनानुपलब्धेः, उपलम्भेऽपि तदर्थानवगमात् , तदर्थनिश्चयार्थ पुरुषाश्रयणे गजनानन्यायप्रसङ्गात् , तस्य रागादिकलुषितस्वेन वितथार्थकथनप्रवृत्तः, तद. नुष्ठानादपि स्वकार्यसिद्धौ प्रणयनार्थमपि पुरुषः किं नेष्यते ? विशेषाभावात् । तब क्षीणदोषवचनं व्यतिरिच्यान्यतः प्रेक्षावतां परलोकादावदृष्टेऽर्थे प्रवृत्तियुक्ता, तत् तदेव शालं, निरुपचरितशब्दार्थोपपत्तेरित्यास्तां तावत् । अत एव उल्लायते प्राबल्येन गम्यते अभिभूयते अन्य रित्युल्लष्यम्, ततोऽन्यद् अनुल्लष्यम् सर्ववचनातिशायीति यावत् । अत एव दृष्टेन प्रमाणनिर्णीतेनेष्टस्य तद्वाच्यस्य विरोधी यस्मिस्तत् तथा तदेव, यदि वा, इष्टः प्रमाणेन, इष्टो वचनान्तरेण, तयोर्विरोधकम् , तद्विरुद्धार्थाभिधानात् , ततोऽन्यददृष्टेष्टविरोधकम् , अबाधार्थाभिधायीत्यर्थः । तदियता शास्त्रस्य स्वार्थसंपदुक्ता, अधुना तत्वोपदेशादीनां परार्थत्वात् परार्थसंपदमाह-तस्वं जीवादयः पदार्थाः, प्रमाणप्रतिष्ठितस्वात् , तेषामुपदेशः स्वरूपप्रकाशनम् , तदक्षणादिविधानं वा, तं करोति तत्वोपदेशकृत् , अत एव सावं सर्वस्मै हितम् , प्राणिरक्षणोपायोपदेशपरमपददायितया विश्वजनीनत्वात् । एतेन परार्थसंपादकस्व. मुकम् । अधुना परेषामेवानर्थपरिघातिवमाह- कुत्सिताः पन्थानः कापथाः तीर्थान्त.
आत इत्यादि । उपसायते आदौ उपलभ्यते स्म इत्युपज्ञा, आतश्योपसर्गे (पा०३-१-१३१)-इति कर्मण्यङ्, तत आप्तस्योपज्ञा आप्तोपन्ममिति; तत्पुरुषाधिकारे उपज्ञोपक्रमे (पा०२-४-२१) इति सूत्रेण उपसान्तस्य नपुंसकत्वम् , तेनोपामिति तु नाव. बुध्यते; वाक्ये नपुंसकत्व विधानाभावात् । गजस्नानन्यायेत्यादि । यथा-गजोऽम्भसा रजोवियुक्तमात्मानं विधाय पुनरेव रजोभिरात्मानं मलिनयति, तथा त्वमपि रागद्वेषोपहतपुरुषप्रणयनसमुत्थं वेदानां कालुष्यमपौरुषेयस्वाभ्युपगमेन निराकृत्य व्याख्यानार्थ पुनरपि तथाभूतं पुरुषमभ्युपगच्छन् तदेवाहीकुरुषे इति । तदनुष्ठानादिति । अनुष्ठानं व्याख्यातु.
ख्यिानलक्षणो व्यापारतस्मान् । स्वकार्यस्य परलोकादावदृष्टेऽर्थे प्रवृत्तिरूपस्य सिद्धाविति अभ्युपगम्यमानायामिति शेषः । रटेनेत्यादि इदमर्थकथनमात्रम् , समासविग्रहस्त्वयम्इष्टस्य विरोधः, दृष्टेन इष्टविरोधः न विद्यते दृष्टेटविरोधो यत्र तत्तथा । तद्वाव्यस्येति शाम्राभिधेयस्य । सर्वस्मै हितमिति । अस्मिन् वाक्ये सर्वाण्णो वा (सि० हे० ७.१.४३) इति हितेऽर्थे जप्रत्ययः । विश्वजनीनत्वादिति विश्वे च ते जनाथ विश्वजनास्तेभ्यो हितं विश्वजनीनम् पञ्चसर्वविश्वाजनात्कर्मधारये (मि०हे ० ७.१.१)- इति खः, तस्य इनादेखें
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110