Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org , ३३ मनेन सहावस्थानाभावात् । व्यवहारावतारिणो घटादिस्वलक्षणस्य निर्णयेनैव ग्रहणात्, अन्यथा व्यवहाराप्रवृत्तेः दृष्टस्याप्यदृष्टानतिशयनात् । तस्मात् व्यवसायारमकमध्यक्ष मित्येतदेव चार्विति स्थितम् ॥ अपरोक्षतया - इत्यनेन तु परोक्षलक्षणसंकीर्णता मध्यक्षस्य परिहरति, तस्य साक्षात्कारितया अर्थग्रहणरूपत्वादिति । ईदृशम् - इयमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिवज्ञानोपप्रदर्शनात् परपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षतां प्रतिक्षिपति । एवं च यदाहुः इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्, तथा, सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तस्प्रत्यक्षम् इत्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्राद र्भावस्य प्रमाणबाधितत्वात्, अत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात् । तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसंनिधानात् साक्षादर्थग्रहण परिणामरूपतया विवर्तेत, तथा चोत्पन्नजन्मादिविशेषणं न संभवेत् । अथैवंविधासूचकमेवैतद्- इत्याचक्षीथाः, तथा सत्यविगानमेवेत्यास्तां तावत् । अधुना परोक्षलक्षणं दर्शयति- इतरदित्यादि । अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमिन्युकम्. तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमचगन्धम्। स्वसंवेदना पेक्षया प्रत्यक्षमेव, बहिरर्थापेक्षय त दर्शयन्नाह - ग्रहणक्षया इति, छह ग्रहणं प्रक्रमाद् बहिः गवर्तनमुच्यते, अन्यथा विशपणवैयथ्यं स्यात्, तस्येक्षा अपेक्षा तया, बहिःप्रवृत्तिपर्यालोचनयेति यावत् तदयमर्थः - यद्यपि स्वयं प्रत्यक्षम्, तथापि लिङ्ग शब्दादिद्वारेण बहिर्विषयग्रहणे साक्षात्कारितया व्याप्रियते इति परोक्षमिच्यते । एतच्च बुभुत्सितार्थान्यथानुपपन्नार्थान्तरप्रतीतिवशादुभयधर्मकमिति सामान्य लक्षणसद्भावादेकाकारमपि विप्रतिपत्तिनिराकरणार्थं द्विधा भिद्यते । तद्यथा अनुमानं शाब्दं चेति । यतोऽद्यापि शब्दस्यार्थान्यथानुपपन्नत्वमेव परे न प्रतिपद्यन्ते, न चापृथक्कृतस्य तद्विविक्तं वक्तुं शक्यम्, अतो भेदेनो व्यपदेशमन पन्यासः ॥४॥ न्यायावतारः Acharya Shri Kailassagarsuri Gyanmandir 1 अन्यथेत्यादि । निर्णयेन ग्रहणाभावे व्यवहाराप्रवृत्तेः, दृष्टस्यापि क्षणिकस्वलक्षणस्य अदृष्टादनतिशायनं अविशेषः अदृष्टादनतिशायनं तस्मात् । वज्युपसर्गस्य बहुलम् ( सिद्ध० ३-२-८६ ) इति बहुलग्रहणात् क्वचिदुत्तरपदस्य वा दीर्घत्वेन नरकनारका दिवदतिशयनमतिशायनं वेति संभवति ॥ इन्द्रियार्थसंनिकर्षेत्यादि । अत्र सूत्रे यत इत्यध्याहार्यम्, ततोऽयमर्थः -- इन्द्रियार्थसंनिकर्षोत्पन्नत्वादिविशेषणं ज्ञानं यत इन्द्रियार्थसंनिकर्षादिमंत्र तत्प्रत्यक्षम् ; ज्ञानं तु प्रत्यक्षप्रमाणफलम्, हानोपादानादिबुद्धयपेक्षया तु तदपि ज्ञानं प्रकारमैत्र । अव्यपदेश्यं व्यवसायात्मकमिति पदद्वयेन निर्विकल्प सविक मेदेन प्रत्यक्षन्य द्वैविध्यमाह शेषाणि तु ज्ञानविशेषणानि । सत्संप्रयोगेत्यादि । सता विद्यमानेन वस्तुना इन्द्रियाणां संप्रयोगे संबन्धे सति पुरुषस्य यो ज्ञानोत्पादस्तत्प्रत्यक्षम् | आदिशब्दान ग्याया-५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110