Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्यापास्तार पि समानम् । तथाहि- स्वलक्षणविषयन्द्रियजनिर्विकल्पकज्ञानसदावेऽपि न ताबविदतयानिदंतया वार्थव्यवस्थितिः, यावद्विधिप्रतिषेधद्वारेण विकल्पयुगलकं पाबाल मोदयते, यत्रैवांशे विकरुपं जनयति, तत्रैवास्य प्रमाणता- इति वचनात् । निर्विकल्पकस्य सतोऽपि व्यवहारं प्रत्यसस्कल्पत्वात् । स च विकल्पः संकेतकाल. भावितमभिकापसामान्यमनुस्मरत एवोत्पत्तुमर्हति, अभिलापसामान्यस्मरणवीज च कुतः प्रबुध्येत ? ताशदर्शनादिति चेत्, ननु तदपि दर्शनं निर्विकल्पकत्वादर्थ मातिशेते, तस्कथं सामान्यविषयविकल्पबीजं प्रबोधयेत् ? अर्थः पुनः सामान्यम्यवसायास्मिकां बुद्धिं न जनयेदिति भवतां कदाग्रहः । तदर्थवत् तद्विषयं दर्शनं व्यवसायशून्यत्वात् नाभिलापसामान्यगोचरस्मरणबीजं प्रबोधयति, तदप्रबुद्धं न स्मरणं जनयति, अजातं स्मरणं न शब्दं योजयति, अयोजितः शब्दो नार्थ निश्चापयति, अनिश्चितोऽर्थो न व्यवहारमवतरति, अनवतीणों नादृष्टाद्विशिष्यते, अवि. शिष्टः प्रमातुरान्भ्यं लक्षयतीति । तस्माद्यथाकथंचिनिर्णयाभावात् स्वयमप्रतीतमपि निर्विकल्पकदर्शनं वासनाप्रबोधद्वारेण विकल्पमुत्थाप्यात्मव्यापारमभिलापयति कतिचिदंशविषयम् , तथार्थोऽपि यदि चक्षुरादिसामग्यन्तःपातित्वेनाप्रतीत एव स्वयम्, तथास्वभावत्वात् । संकेतकालभाविताभिलापसामान्यविषयात्मसंस्कारप्रबोधद्वारेणात्मविषयमभिलापसंसृष्टं संवेदनमुल्लासयेत् नात्यन्तमयुक्तं पश्यामः । न चायं सविकल्पको बोधो मनोराज्यादिविकल्पकल्पः। चक्षुरादिसामग्रीसंपाद्यत्वात् । इतरस्य तु मनोमात्रप्रभवत्वात् । अतः कथं तद्वद्विकल्पान्तराविर्भावे निवर्तेत ? मानसविकल्प. स्यैव विकल्पान्तरेण निवर्तनात्, अस्य तु कारणसामर्थ्येन बलात् प्रवृत्तेः । एतेन संहृतसकलविकल्पावस्थायां नैष प्रादुःष्यादित्येतदपि प्रतिक्षिप्तम्, अस्य प्रमातुरिच्छया संहर्तुमशक्यत्वात् , मानसविकल्पसंहरण एव तत्सामोपपत्तेरिति । एतच्च शब्दसंपृक्तप्रत्यक्षपक्षादपि एकान्तनिर्विकल्पकप्रत्यक्षपक्षस्य पापीयस्तां दर्शयद्भि नोदयते इति । अय वयेत्यादिदण्डकधातुः, नोदयतीति पाठे तु अट पट इट किट कट इ गतौ इत्यस्य प्रयोगः । स्मरणबीजमिति । स्मृतेः कारणत्वाद् बीजमिव बीजं संस्कारः । तस्मात् यथा कथंचिदिति । तस्मादिति हेतो पञ्चमी, यथेति दृष्टान्तोपदर्शनार्थः; कथंचित् केनचित् प्रकारेणेति । अयमिति । इन्द्रियजः । विकल्पकल्पः विकल्पसदृशः, कल्पशब्दस्य उपमार्थत्वात् । यदाह सामर्थ्यवर्णनायां च छेदने करणे तथा । औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥ चक्षुरादीति । आदिशद्वाद् रूपावलोकमनस्कारादयो गृह्यन्ते। इतरस्येति । मनोराज्यादिविकल्पस्य । तद्वत् मनोराज्यादिविकल्पवत् । एष इन्द्रियजो विकल्पः । पापीयस्तामिति । पापं पातकं तद्योगात् पक्षोऽपि पापः, । ततोऽयमनयोरतिशयेन पापः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110