Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः रस्माभिरुग्राहि । परमार्थतः पुनः प्रत्यक्ष साक्षाच्छब्दोल्लेखो नेष्यते, विशदव्यव. सायेनार्थसाक्षात्करणचतुरत्वात्तस्य । केवलं तदपि संनिहितं परिरफुटं स्वावयवन्या. पिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्त अलक्षितपरमाणुपारिमाण्डल्यं पदार्थान्तरैः सह समानासमानाकारं स्वपरमाणूनां सामान्याकारं स्तम्भादिकं पदार्थ गोचरयतीति सविकल्पमित्युच्यते, परपरिकल्पितक्षणक्षयिविविक्तपरमाणुलक्षणस्वलक्षणग्रहणप्रवणनिर्विकल्पप्रत्यक्षप्रतिषेधार्थ कथंचिदभिलापसंसर्गयोग्यगोचरतादर्शनार्थ था । एवं च प्रत्यक्षगोचरीकृतेऽर्थे संज्ञासंज्ञिसंबन्धग्रहणादयस्तद्विषयाः शाब्दव्यवहाराः सर्व एव निरुपचरिता घटन्ते इत्युक्तं भवति । यदि पुनः शब्द. संसर्गयोग्यप्रतिभासमध्यक्षं न स्यात् , ततः को दोषः इति चेद् , विकल्पानुत्थानेन सविकल्पव्यवहारोच्छेदप्रसङ्गः । तथा हि-निर्व्यवसायं दर्शनमित्यतः पाटवोपेतमपि स्मृतिबीजाधानं तदुत्तरकालभावि वा तादृशार्थदर्शनं तत्प्रबोधनमभ्यासवासनापाट. वेऽपि न विधातुमलम् , यतः सामान्य विकल्पोत्पत्त्या व्यवहारः प्रवर्तेत, क्षणिकत्वादिषु सकलकालं निर्विकल्पकाध्यक्षदृष्टतयाभ्युपगतेष्वपि तददर्शनात् । तस्मात् यत्र कुत्रचिदाशे पाश्चात्यव्यवहारप्रवृत्तिस्तत्र प्राचीनं संवेदनं निर्णायकमभ्युपगन्तव्यम् , अन्यथा क्षणिकत्वाधेशवत् सर्वाशेषु व्यवहारः प्रलीयेत । तन कदाचन कल्पनापो. ढत्वं प्रत्यक्षस्य प्रमातुरपि प्रतीतिगोचरचारितामनुभवति । अप्रतीतं चास्तीति श्रद्धातुं दुःशकम् , अतिप्रसङ्गादित्यलक्षणम् । अभ्रान्तत्वमपि न जाघटीति, भवद. भिप्रायेण स्थिरस्थूरार्थग्राहिणः संवेदनस्य विपर्यस्तरूपत्वात् , तद्विपरीतस्य तु स्वप्नकालेऽप्यप्रकाशमानत्वात् । तद्यदि यथावस्थितार्थप्राहित्वमभ्रान्तत्वम् , तन संभवत्येव, विविक्तक्षणक्षयिपरमाणनां कदाचिदप्यप्रतिभासात्, तेषां च पारमार्थिक. स्वात् । अथ व्यावहारिकाभिप्रायेण यदिदं घटादिकं स्वलक्षणमर्थक्रियाक्षमम् , सत्र यन्त्र भ्राम्यति तदभ्रान्तमित्यभिप्रेतम् , तर्हि कल्पनापोढपदमुत्सारणीयम् , इदानी. गुणागाद्वेष्ठेयसू ( सिद्ध० ७-३-९) इतीयस् । उदग्राहीति । उपन्यस्तम्, उत्पूर्व इनन्ती अहिरुपन्यासे वर्तते । यदजयः उग्राहितमुपन्यस्ते बद्धाग्न्याहितमोरपि ---इति । समानासमानाकारमिति । सजातीयैः सह समानाकारं विजातीयैः पुनरसमानाकारम् । संबधग्रहणादय इति । आदिग्रहणाद् विशेषणविशेष्यभावग्रहः । तथाहीत्यादि।अभ्यासवासनापाटवेऽपि अभ्यासाद्वासना अभ्यासवासना। वासनेति पूर्वक्षानजनितामुत्तरसाने शक्तिमाहुस्तद्विदः । तस्याः पाटवं तस्मिघपि सति, अलम् समर्थम्, निर्व्यवसायेति च विशेषण. द्वारेण हेतुरुक्तः, निर्विकल्पत्वादाद्योत्तरदर्शने कर्तृणीति संस्कारतद्रोधनं यथाक्रमं कर्तुं न पारयत इत्युक्तं भवति । यत इति । स्मृतिबीजाधानतत्प्रतिबोधनाभ्याम् । तददर्शनादिति। व्यवहारादर्शनात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110