Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः किं च यद्युत्पादकार्थोपयोगेऽपि तं तावन्न गृह्णीयात्, संवेदनमपि तु स्मरणसंपादितं तदभिधायकध्वनिसंयोजनं प्रतीक्ष्यमाणं तावदासीत, तर्हि दत्तो जलाअलिरर्थग्रहणस्य । तथा हि- तमर्थमपश्यंस्तस्मिन् गृहीतसंकेतं तदभिधायकं ध्वनिं नानुस्मरति, उपायाभावाद्, अननुस्मरंश्च पुरोवर्तिन्यर्थे न योजयति, स्मृत्युपस्थापनव्यतिरेकेण तथेोजनाशक्तेः, अयोजयंश्च भवदभिप्रायेण न पश्यतीति धान्ध्यादान्ध्यमापद्येत । यदि चेन्द्रियजमपि ज्ञानं विकल्पकलुषितमिष्येत, तदा तदपि मनोराज्यादिविकल्पवद् विकल्पान्तराविर्भावे सति निवर्तेत; नचैतदस्ति, संनिहित गोपिण्डगोचरस्य चक्षुर्जसंवेदनस्याश्वादिविषय विकल्पोदयेप्यनिवर्तनात् संहृतसकलविकल्पस्यापि च परिस्फुटसंनिहितार्थविषयदर्शनसिद्धेः । तन्नाक्षजं ज्ञानं शब्दसंपर्कमनुभवति । अत्र प्रतिविधीयते यत्तावदुक्तम्, अशब्दकार्थसामथ्र्यद्भवत्वाद् ध्वनिरहितमध्यक्षमिति, तदयुक्तम्, न हि शब्दासंपृक्तार्थजमित्येतावतैवाभिलापविनाकृतमिति वक्तुं शक्यम्, अन्यथा जडार्थजनितमिति जडमपि तत् स्यात् । अथ बोधरूपमनस्कारसाहित्याद् न जडमिति ब्रूषे, तथा सत्यभिलापसंसृष्टमनस्कारसंनियोगात् साभिलापमपि स्यात् । किं च विविक्ताः परमाणवः स्वाकारार्पणद्वारेण स्वगोचरं ज्ञानमुत्पादयन्तः कथमसन्तमात्मनि स्वावयवव्यापिनं कालान्तर संचरिष्णुमाकारं तत्र प्रथयन्ति । विभ्रमादिति चेन, इदानीमर्थे यदस्ति तदेव प्रतिभाति, तत्रासतोऽपि स्थूराकारस्य प्रतिभासनात् । तथा शब्दोऽपि यद्यविद्यमानोऽर्थे तदग्राहिणि ज्ञाने प्रतिभासेत, किं भूयेत ? यच्चोक्तं - स्मरणजनितशब्दसंयोजन प्रतीक्ष्यमाणमर्थोपयोगेऽपि यद्यासीतेत्यादि यावदान्ध्यमापद्येत तत् तावकपक्षे - तमिति अर्थम् । धान्ध्यादिति । धन्ध्यो जडः तस्य भावो धान्ध्यं जाड्यम् । विनिश्चयटीकायाम् - धन्थ्यो जड इति । क्वचित् ध्यान्ध्या दिति पाठस्तदैवं व्याख्या- धियो बुद्धेरान्ध्यं ध्यान्ध्यं जाड्यम्, -परं नायं पौराणिकः । संहृतेत्यादि । संहृत विकल्पावस्थायां संनिहितार्थ - विषयविशददर्शनाभिधानेनेन्द्रियजबोधस्य विकल्परूपतां निरस्यति, तथा हि- इन्द्रियजो घटादिबोधो विकल्परूपो न भवति, संहृतसकलविकल्पस्यापि पुंसो जायमानत्वात्, यः पुनर्विकल्परूपो नासौ संहृतसकलविकल्पस्य जायते, यथा मनोराज्यादिविकल्पः, न चायं संहृतसकल विकल्पस्य न जायते, तस्माद् विकल्परूपो न भवतीत्यत्रानुमानम् । विकल्परूपताभ्युपगमे संहृतसकलविकल्पस्य न प्रादुःष्यादिति बाधकम् । तत्रेति ज्ञाने । तत्रासतोऽपीति । परमाणुलक्षणेऽर्थेऽविद्यमानस्यापि प्रतिभासनात्, ज्ञाने इति शेषः । ताचकपक्षेऽपीति । अयमत्राभिप्रायः -- 1 1 'यश्चोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोज्यः स्यात् तादृगर्थविचारणे ॥ १ ॥ इति । (लो० वा० ) १ मुद्रितपुस्तके " तस्माद्यत्रो भयोर्दोषः ", पर्यनुयोक्तव्यः " इति पठ्यते । “ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110